________________
(कारणेन) स्वधाम नु परं (अस्तु)।
संयमिभिरिति- हे अतिवाम ! वाम कामम् अतिक्रान्तः अतिवामस्तत्सम्बुद्धौ हे निष्काम ! सुमते ! सुष्ठु मतिर्यस्य तत्सम्बुद्धौ।हे सुबुद्धे ! संयमिभिः साधुभिः, महितेन पूजितेन, हितेन कल्याणकारिणा , तेन शीलेन शीलव्रतेन, समं सार्धं, हि निश्चयेन, मम मतिः, अस्तु मामकीना बुद्धिः निरतिचारशीलव्रतसहिता भवतु। तेन (कारणेन) तु परं पुरतः सम्मुखं, स्वधाम स्वस्य धाम स्वधाम मोक्षः (अस्तु) ।।१८।।
____अर्थ- हे निष्काम ! हे सुमतिसंपन्न! जिनेन्द्र! संयमी साधुओं के द्वारा पूजित, हितकारी उस शीलव्रत के साथ ही मेरी बुद्धि रहे और इस कारण श्रेष्ठ स्वधाम-मोक्ष प्राप्त हो ।।१८।।
_[१९] हिमांशुनाऽपि हिमेन ह्यलं गाङ्गेनाम्बुनाऽपि हिमेन ।
वरोऽस्त्वस्यमहिमेन बाह्येतरदाहहा हि मे न ! ।। हे! इन! न ! हिमेन हिमांशुना अपि गाङ्गेनाम्बुना अपि हिमेन अलं मे अस्य (शीलस्य) बाह्येतरदाहहा महिमा वरः अस्तु।
हिमांशुनेति- हे इन! स्वामिन्! न! जिन! हिमेन तुषारेण, हिमांशुनापि चन्द्रेणापि गाङ्गेन गङ्गाया इदं गाङ्गं तेन गङ्गासम्बन्धिना अम्बुना जलेन, अपि किञ्च, हिमेन चन्दनेन, अलं पर्याप्तं, एतैर्ममान्तर्दाहस्य विध्वंसो न भवतीत्यर्थ: । 'तुषारे चन्दने शीले हिमं त्रिषु तु शीतले' इति विश्वलोचनः। मे मम, अस्य (शीलस्य) बाह्येतरदाहहा बाह्यश्च इतरश्चेति बाह्येतरौ, तौ च तौ दाही च, इति बाह्येतरदाहौ तौ हन्तीति बाह्येतरदाहहा बाह्याभ्यन्तरदाहविघातकः महिमा प्रभावः, वरः प्रकृष्टः अस्तु । निरतिचारशीलव्रतत्वे सति बाह्याभ्यन्तरदाहविघातो भवति नान्यथेति भावः ।।१९।। ___ अर्थ- हे स्वामिन् ! हे जिनेन्द्र! बर्फ, चन्द्रमा, गङ्गाजल, और चन्दन की आवश्यकता नहीं है। इस शीलव्रत की बाह्य और आभ्यन्तर दाह को नष्ट करने वाली उत्कृष्ट महिमा ही मेरे पास रहे ।।१९।।
[२०] स्तुतानि ह्यङ्ग तानि व्रतानि यानि सता शुचितां गतानि ।
अकानि सम्यगतानि त्यक्त्वा गतान्यनागतानि ।। हे अङ्ग! आगतानि अनागतानि गतानि च अकानि हि त्यक्त्वा यानि सता स्तुतानि शुचितां गतानि व्रतानि तानिस
तानि ।
(१५४)