________________
वातदोष ! न ! भव ! एतद्विषः (विनयरहिताः) भयङ्करं भवार्णवम् न प्लवन्ते (ततः) ते अभवं भवं न अरं यन्ति ।
एतद्विष इति - हे वान्तदोष ! हे निर्दोष ! न ! पूज्य ! भव ! कल्याण ! हे रागादिदोषरहित, पूज्य, कल्याणरूप जिनेन्द्र ! एतद्विषः एतद् विनयसम्पन्नत्वं द्विपन्तीति एतद्विषः विनयरहिता इत्यर्थः । भयङ्करं भीत्युत्पादकं भवार्णवं संसारसागरं न प्लवन्ते न तरन्ति (ततः) ते अभवं जन्मरहितं भवं कल्याणं सुखम्, अरं शीघ्रं न यन्ति न प्राप्नुवन्ति । “भवः श्रीकण्ठसंसारश्रेयः सत्ताप्तिजन्मनि' इति विश्वलोचनः । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । । १६।।
अर्थ- हे वान्तदोष ! हे पूज्य ! हे कल्याणरूप ! विनयशीलता से द्वेष रखने वाले मनुष्य, भयंकर संसारसागर को नहीं तैर सकते । इसीलिये वे अभवभव • जन्मरहित सिद्धपर्याय को शीघ्र नहीं प्राप्त होते || १६||
-
[१७]
वामवमिना ह्यमानं जगदकमनुभवति दंदह्यमानम् । स हित्वाऽग्राह्यमानं जगादेत्यजः संगृह्य मानम् ।। वामवमिनां हि दंदह्यमानं अमानं जगद् अकं अनुभवति, इति स अजः अग्राह्यमानं हित्वा मानं संगृह्य जगाद | वामेति- वामवमिना वामः काम एव वमिः पावकः अग्निरित्यर्थस्तेन कामाग्निना, हि निश्चयेन, दंदह्यमानं पुनः पुनरतिशयेन वा दह्यमानं, अमानं ज्ञानरहितमु, अमितं सर्वं वा जगद् भुवनम्, अकं दुःखम्, अनुभवति । इतीत्थं स प्रसिद्धः, अजो भगवान् अग्राह्यमानं न ग्रहीतुं योग्य: अग्राह्यस्तथाभूतो मानोऽहंकारस्तं हित्वा त्यक्त्वा मानं ज्ञानं संगृह्य सम्यक् प्रकारेण गृहीत्वा, जगाद कथयामास । 'वामः सव्ये हरे कामे धने वित्ते तु न द्वयोः’ ‘वमिः स्यात्पावके पुंसि' इति च विश्वलोचनः । । १७ । ।
1
अर्थ- 'कामरूप अग्नि से अत्यधिक जलता हुआ जगत् अपरिमित दुःख का अनुभव करता है - ऐसा उन जन्मातीत - जिनेन्द्र ने अग्राह्य मान को छोड़कर तथा ज्ञान का अच्छी तरह संग्रह कर कहा है || १७||
ग्रहण करने के अयोग्य
[१८] संयमिभिर्महितेन शीलेन समं सुमते ! मम हि तेन । मतिरतिवाम ! हितेन त्वस्तु परं स्वधाम हि तेन ।।
हे अतिवाम! सुमते ! संयमिभिः महितेन हितेन तेन शीलेन समं हि मम मतिः अस्तु । तेन
(१५३)