________________
[१४] स विनयशीलोऽकेन श्रितमहितमपि कुमार्गगं लोकेन ! ।
मुदा विदालोकेन स्वपथगं करोति लोके न ! ।।१४।। हे लोकेन ! न! अकेन श्रितं कुमार्गगं अहितं अपि लोके विनयशीलः मुदा विदालोकेन स्वपथगं करोति।
स इति- हे लोकेन! लोकस्य जगत इनः स्वामी लोकेनस्तत्सम्बुद्धौ हे जगन्नाथ! न! हे जिन ! अकेन दुःखेन पापेन वा 'अकं दुःखाघयोः' इति विश्वलोचनः। श्रितं सेवितं सहितमिति यावत्। कुमार्गगं कापथगामिनम्। अहितं शत्रुम् अपि जनं लोके भुवने विनयशीलः विनयः शीलं स्वभावो यस्य तथाभूतः स विनयसम्पन्नता-युक्तो जनः। मुदा हर्षेण। विदालोकेन सम्यग्ज्ञानप्रकाशेन स्वपथगम् आत्ममार्गगामिनं करोति विदधाति। विनयशीलो जनः कुमार्गगं शत्रुमपि सुमार्गगं विदधातीति भावः ।।१४।।
अर्थ- हे लोकेन! हे जगत् के स्वामी जिनेन्द्र ! दुःख या पाप से युक्त, कुमार्गगामी शत्रु को भी लोक में विनयशील मनुष्य हर्षपूर्वक ज्ञानरूप प्रकाश के द्वारा सुपथगामी बना देता है ||१४||
[१५] किं स्याद् भगवन्नमितं सुखमवनाविह विना ह्यनेन मितम् ।
वन्दे मुनिभिर्नमितं ततो विदांवरैर्मानमितम् ।। हे भगवन् ! इह अवनौ अमितं (ना) मितं सुखं अनेन विनयेन विना किं स्यात् ? ततः विदांवरैः मुनिभिः मानं इतं नमितं (च) (विनयपदं अहं) हि वन्दे ।
किं स्यादिति- हे भगवन्! इह अवनौ अस्यां पृथिव्यां अमित अपरिमितं विपुलमित्यर्थः, मितं परिमितम् अल्पमिति यावत्, वा सुखम् अनेन (विनयेन) विना किं स्यात् ? अपि तु न स्यात् । ततस्तस्मात् कारणात् विदांवरैः ज्ञातृश्रेष्ठै मुनिभिः यतिभिः, मानं पूजाम्, इतं प्राप्तं, नमितं नमस्कृतं (च) विनयपदं विनयसम्पन्नत्वम् अहम्, हि निश्चयेन वन्दे नमस्करोमि। 'मानः स्यादपि पूजायाम्' इति विश्वलोचनः ।।१५।।
अर्थ- हे भगवन् ! इस पृथिवी पर अपरिमित और परिमितसुख क्या विनय के बिना हो सकता है ? अर्थात् नहीं। इस विनय के द्वारा ही ज्ञानी मुनियों ने सन्मान और नमस्कार को प्राप्त किया है ।।१५।।
[१६] एतद्विषः प्लवन्ते न भवार्णवं भयङ्करम् । वान्तदोष भवं ते न भवाभवं न यन्त्यरम् ।।
(१५२)