________________
[१२] एतद्विषं साधनं जयश्रीरिवेनमूनसाधनम् ।
ब्रजेन्नहि सत् साधनं फलति संसारेऽञ्जसा धनम् ।। एतद्विषं (विनयविहीनं) साधनं न व्रजेत् ऊनसाधनम् इनम् जयश्रीः इव। सत् साधनं हि संसारे अञ्जसा धनं फलति ।
एतद्विषमिति- एतद्विषम् एतं द्वेष्टीति एतद्विट् तं विनयविहीनं जनमिति शेषः । साधनं सिद्धिः, न व्रजेत् न गच्छेत् । ऊनसाधनं न्यूनसैन्यम्, इनं राजानम्, जयश्रीरिव विजयलक्ष्मीरिव। सत् साधनं समीचीन उपायः हि निश्चयेन संसारे जगति अञ्जसा यथार्थ धनं द्रविणं फलति समुत्पादयति । 'साधनं मेहने सैन्ये निवृत्तिगतिसिद्धिषु । करणे चोपकरणे मृतसंस्करणे वधे । द्रवणे चानुव्रज्यायामुपाये दापने धने ।।' इति विश्वलोचनः ।।१२।।
अर्थ - विनय से द्वेष करने वाले मनुष्य को साधन - सिद्धि उस प्रकार नहीं प्राप्त होती, जिस प्रकार कि ऊनसाधन - कम सेना वाले राजा को विजय लक्ष्मी प्राप्त नहीं होती । उचित है,क्योंकि समीचीन साधन – उपाय ही यथार्थ रूप से धन को फलता है ।।१२।।
[१३] एतद्वहता गमितं ह्यनन्तान्तं पापं सम्यगमितम् ।
स्वमूल्यं येन गमितं तस्मै कं किं नाङ्ग मितम् ।। हे अङ्ग ! अनन्त ! न ! येन एतद्वहता (विनयशीलेन) स्वमूल्यं गमितं अमितं पापं अन्तं गमितं (तदा) तस्मै मितं कं किं ? (किमपि नेत्यर्थः)।
एतदिति- अङ्ग! अनन्त! न! हे अन्तातीतजिन! 'नकारो जिनपूज्ययोः' इति विश्वलोचनः। येन कारणेन एतद् (विनयसम्पन्नत्वं) वहता दधता विनयशीलेन जनेनेत्यर्थः। स्वमूल्यम् आत्ममूल्यं गमितं प्रापितम् । अमितं अपरिमितं बहुलमित्यर्थः। पापं वृजिनं सम्यक् सुष्ठुरीत्या अन्तं विनाशं गमितं प्रापितं (तदा) तस्मै मितं परिमितम् अल्पपरिमाणं कं सुखं किं किंनामधेयम् न किमपीत्यर्थः। 'अन्तं विशुद्ध व्याप्ते स्यादन्तो नाशे मनोहरे। 'कं सुखे वारि शीर्षे च' इति च विश्वलोचनः ।।१३।।
अर्थ- अङ्ग! अनन्त! न ! हे अन्तातीतजिनेन्द्र! विनयसम्पन्नता को धारण करने वाले जिस मनुष्य ने स्वमूल्य-आत्ममूल्य को प्राप्त किया है, और अपरिमित पाप का अन्त किया है उसके लिये मित-सीमित-सांसारिक सुख क्या है? वह तो मोक्षसम्बन्धी अनन्तसुख का पात्र होता है ।।१३।।