________________
[१०] दिव्यालोकप्रदानेशदर्शनशुद्धिभास्करः ।
भव्याब्जककदा वाशस्पर्शकोंऽशुशुभाकरः ।। (दर्शन) दिव्यालोकप्रदानेशदर्शनशुद्धिभास्करः अंशुशुभाकरः, अशस्पर्शकः, भव्याब्जककदाः (अस्ति)। वा निश्चये (न)।
दिव्यालोकेति- (दर्शनं) एतत् सम्यग्दर्शनम्। दिव्यालोकः केवलज्ञानं तत्प्रदाने ईशः समर्थः, स चासौ दर्शनशुद्धिरेव भास्करः केवलज्ञानप्रदानदक्षदर्शनविशुद्धिभावनासूर्यः, अंशुशुभाकरः अंशूनां किरणानां शुभाकरो मङ्गलखनिः। अशस्पर्शकः शः हिंसा तस्य स्पर्शको न भवतीत्यशस्पर्शकः अहिंसान्वितः। भव्याब्जककदाः भव्या एव अब्जानि कमलानि भव्याब्जानि,भव्याब्जान्येव भव्याब्जकानि, स्वार्थे कः, तेभ्य: कं सुखं ददातीति भव्याब्जककदाः (अस्ति) वा निश्चयेन । सम्यग्दर्शनमेतत् केवलज्ञानप्रदाने भास्कर इव शोभते। भव्यारविन्दविकासकश्च निश्चयेनास्तीति भावः । 'शः शतायुषि हिंसायां शं धर्मे शा तु मातरि' इति विश्वलोचनः ।।१०।।
अर्थ- केवलज्ञान के प्रदान करने में समर्थ दर्शनविशुद्धिरूपी सूर्य, किरणों की शुभ खान है, अहिंसा से सुशोभित है, और भव्यजीव रूप कमलों को सुख देने वाला है, यह निश्चय है ||१०।।
[११] न मयाऽकं न नपावनं विनयो यियासुनाय॑ते पावनम् ।
मुक्त्वा सुधीः पावनं कोऽटेद् ग्रीष्मातः पावनम् ।। . हे नप ! पावनं अवनं यियासुना मया विनयः अर्च्यते, न अकं (अर्च्यते) कः सुधीः ग्रीष्मार्तः पावनं मुक्त्वा पावनं अटेत् (कोऽपि नेत्यर्थः)।
___ न मयेति- हे नप ! हे पूज्यरक्षक ! 'नकारो जिनपूज्ययोः' 'पो वाते पा तु पाने स्यात्पास्तु पातरि वाच्यवत्' इति च विश्वलोचन: । पावनं पवित्रम् अवनं रक्षणं यियासुना प्राप्तुमिच्छुना, मया नयपदं नीतिस्थानं विनय इति यावत्, अर्च्यते पूज्यते, न अकं पापं 'अकं दुःखाघयोः' इति विश्वलोचनः । न (अर्च्यते)। कः सुधीः को विद्वान् ग्रीष्मातॊ निदाघपीडितः (सन्) पावनं जलं मुक्त्वा पावनम् अग्निम् अटेत् गच्छेत् ? (न कोऽपीत्यर्थः) पावनं तु जले कृच्छ पावकाध्यासयोः पुमान्' इति विश्वलोचनः ।।११।।
अर्थ- हे नप ! हे पूज्यरक्षक! पवित्र रक्षण को प्राप्त करने के इच्छुक मेरे द्वारा विनय की पूजा की जाती है, अक – पाप की नहीं । कौन ऐसा विद्वान् है जो गरमी से पीड़ित होता हुआ पवन – वायु को छोड़ पवन-अग्नि को प्राप्त हो ? अर्थात् कोई नहीं ।।११।।
(१५०)