________________
हे विश्रुते! तव हि अमले शिरसि धवलेतरा कुटिला कचततिः तराम् तथा भाति। विश्रुते मलयचन्दनशाखिनि विषधराः च यथा (भांति) ।
___शिरसीति- हे विश्रुते! विशिष्टा श्रुतिरागमो यस्य तत्सम्बुद्धौ । जिन! भगवन् ! तव भवतो हि निश्चयेन अमले स्वच्छे शिरसि मूनि धवलेतरा श्यामला कुटिला वक्रा कचततिः केशपङ्क्तिः तथा तादृग् भातितराम् अतिशयेन शोभते यथा विश्रुते प्रसिद्ध मलयचन्दनशाखिनि मलयाचलस्थितचन्दनतरौ विषधरा नागाश्च भान्तीति शेषः।।९१।।
अर्थ- हे विश्रुते! विशिष्ट श्रुति के धारक! आपके निर्मल शिर पर कालेकाले धुंघराले बाल उस प्रकार अत्यन्त सुशोभित हो रहे हैं जिस प्रकार कि मलयचन्दन के वृक्ष पर काले-काले सांप सुशोभित होते हैं ।।९१।।
[९२] ननु नरेशसुखं सुरसम्पदं, ह्यभिलषामि न भुव्यपि सत्पदम् ।
जडतनो र्वहनं द्रुतमेत्विति, मज मतिः खरवत् किल मे त्विति ।। अज! ननु नरेश सुखं सुरसम्पदम् भुवि अदि सत्पदं न अभिलषामि (किन्तु) खरवत् जडतनोः वहनम् द्रुतम् इतिम् एतु। किल इति मे मतिः [अस्ति] तु [पादपूतौ ।
' नन्विति- हे अज! हे जन्मातीतजिनेन्द्र! ननु निश्चयेनाहं नरेशसुखं राजसुखं सुरसम्पदं देवैश्वर्यं भुवि पृथिव्यामपि सत्पदं चक्रवर्त्यादिश्रेष्ठपदंनहि अभिलषामि वाञ्छामि। किन्तु खरवत् गर्दभवत् जड़तनोर्जडशरीरस्य वहनं धरणं द्रुतं शीघ्र इतिं
समाप्ति एतुं प्राप्नोतु किल इति हि मे मतिरस्ति। तु पादपूर्ती ।। ९२।। ___. अर्थ- हे अज! मैं राजसुख, देवविभूति और पृथिवी पर समीचीन पद नहीं
चाहता हूं किन्तु गर्दभ के समान जड़ शरीर का ढोना शीघ्र ही समाप्ति को प्राप्त हो, 'यही मेरी चाह है ||९२।।
तवलवाश्च तरंति सुभावि मे, परममानमदोऽत्र विभाविमे)
भगवतो स्त्यिति यद् ह्यमितं श्रुतं, सह दृशा मुनिना पठितं श्रुतम् ।। हे भगवन् ! अदः सुभावि परममानम् अत्र विभौ तव इमे लवाः च तरंति इति भगवतः अमितम् श्रुतम् अस्ति यत् (मया) मुनिना दृशा सह हि पठितम् श्रुतम्।
तवेति- हे भगवन्! अदस्तत् सुभावि सुभविष्यत् परममानं परमं च तन्मानं चेति परममानं समुत्कृष्टज्ञानम् विभौ व्यापिनि अत्रोत्कृष्टज्ञाने तव भवत इमे लवाः च विलासा
(१२१)