________________
[८९] अभयदानविधावसि सद्विधि, जगति दर्शितसत्पथसद्विधिः ।
भगवता विजितःस्वबलैर्विधि, रिति भवन्तमये मम वै विधिः।। हे विधे! जगति दर्शितसत्पथसद्विधिः अभयदानविधौ सविधिः असि। भगवता स्वबलैः विधिः विजितः इति भवन्तम् (अये) (इति) मम वै विधिः ।
___ अभयेति- हे विधे! जगति लोके दर्शितसत्पथ-सद्विधिः दर्शितः सत्पथस्य सन्मार्गस्य सद्विधिः समीचीनोपायो येन तथाभूतस्त्वम् अभयदानसद्विधौ अभयदानस्य सद्विधौ सम्यक्करणे सद्विधिः सम्यग् विधानमसि । भगवता त्वया स्वबलैरात्मबलैः विधि: कर्म विजितः। इति हेतोः भवन्तम् अये गच्छामि प्राप्नोमीति यावत्। इति मम स्तोतुः वै निश्चयेन विधिः अस्तीति शेषः ।। ८९।।
अर्थ- हे भगवन्! जगत् में आपने सन्मार्ग का समीचीन उपाय दिखाया है अतः आप अभयदान के करने में उत्तम विधि से युक्त हैं- अतिशय निपुण हैं। आपने स्वकीय आत्मबलों से विधि-कर्मकलाप को जीता है इसलिये मैं आपकी शरण में आया हूँ यही मेरी निश्चय से विधि है ||८९।।
[९०] तव ललाटतले ललिते ह्यये!, स्थितकचावलिमित्थमहं ह्यये । सरसि चोल्लसिते कमलेऽमले, सविनयं स्थिति रिष्ट सतामलेः ।। अय सताम् इप्ट ! तव ललिते ललाटतले स्थितकचावलिम् अमले सरमि च उल्लगित कमान्य यविनयम् हि अलेः स्थितिः इत्थम् अहं हि अय।
तवेति- अये सतामिष्ट!हे साधूनांप्रिय! तव भवतो ललिते सुन्दरे ललाटतले भालमध्ये स्थितकचावलिः स्थितालकपक्तिं। अमले स्वच्छे सरसि च कासारे च उल्लसिते सुशोभिते प्रफुल्ल इत्यर्थः कमले सरोजे सविनयं हि अलेभ्रमरस्य स्थितिरस्तीत्थं अहं हि अये जानामि। ये ये गत्यर्थास्ते ते ज्ञानार्था अपीत्युक्तेः। कनकाभभालतले स्थिता श्यामलालकावलिः सरसि प्रफुल्लसरोजमध्ये स्थिता भ्रमरावलिरिव शोभत इति भावः ।।९।।
___ अर्थ- हे साधुजनं प्रिय! आपके सुन्दर ललाटतल पर स्थित केशावली, स्वच्छ तालाब में प्रफुल्ल कमल पर सविनय स्थित भ्रमरावलि है, ऐसा समझता हूँ।।९०।।
[९१] शिरसि भाति तथा ह्यमले तरां, कचततिः कुटिला धवलेतरा । मलय चन्दनशाखिनि विश्रुते, विषधराश्च यथा जिन!विश्रुते!।।
(१२०)