________________
सलिलदात् स्रवत् अम्बु नदे अमृतम् (भवति) अकदे विषधरे हि मृतम् विषकम् (भवति) ।
सुधियीति- अय वान्तविमोहविष! वान्तं विमोह एव विषं येन तत्सम्बुद्धौ हे वीतराग! अय सम्बुद्धिवाचकः। अथवा अय! शुभावहविधे! 'मतल्लिकामचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकानमून्ययः शुभावहो विधिः' इत्यमरः। ते भवतो वाग् वचनं सुधियि सुबुद्धौ जने अमृतं पीयूषरूपं भवति। कुधियि दुर्बुद्धौ कलुषायते कालुष्यं करोति । युक्तमेवैतत्- सलिलदात् मेघात् स्रवत् वर्षत् अम्बु नीरं नदे नद्याम् अमृतं जलं पीयूषं वा भवति। अकदेऽकं दुःखं ददातीत्यकदस्तस्मिन् विषधरे पन्नगे मृतं मृत्यूत्पादकं विषकं विषमेव विषकं स्वार्थे कप्रत्ययः । भवतीति शेषः।। ७८।।
अर्थ- हे वान्तमोहविष! हे मोहरूपी विष को उगल चुकने वाले जिनेन्द्र! आपका वचन सुधी जन में अमृत है तो कुधीजन में कलुषता उत्पन्न करता है। ठीक ही है क्योंकि मेघ से झरता-वरसता हुआ पानी नदी में अमृत-जलरूप रहता है और दुःखदायक सर्प में मृत्यु करने वाला विष हो जाता है ।।७८।।
. [७९] ननु मुनेश्च यथा धृतवृत्ततः, स्रवतिशान्तरसः प्रतिवृत्ततः ।
अविरलं त्वदुपासकतोऽमनो, नहि तथा शशिनो मुखतो मनो! ।। हे अमनः! मनो!ननु धृतवृत्ततः त्वदुपासकतः (मत्) मुनेः च यथा अविरलम् शान्तरसः स्रवति, प्रतिवृत्त (अस्मात् काव्यतः) (शान्तरसः सवति) तथा शशिनः मुखतः नहि स्रवति।...
नन्विति- हे अमनः! मनोरहित! हे मनो! हे भगवन्! ननु निश्चयेन धृतवृत्ततो धृतमङ्गीकृतं वृत्तं चारित्रं येन तस्मात् । त्वदुपासकतः तवोपासकस्तस्मात् भवत्सेवकात् मत् स्तोतुर्मुनेश्च यथा यादृक्, अविरलं निरन्तरं यथा शान्तरसः शान्तश्चासौ रसश्चेति शान्तरसो वैराग्यपरिणामः सवति। किञ्च एतत्काव्यस्य प्रतिवृत्ततः प्रत्येकछन्दसः 'त्रिषु वृत्तं तु चरिते वृत्तं छन्दसि वर्तते' इति विश्वलोचनः। शान्तरसो नवरसेष्वन्यतमो रसः स्रवति तथा तादृक शशिनश्चन्द्रस्य मुखतो बिम्बतो न हि सवति नहि क्षरति ।।७९।।
__ अर्थ- हे अमनः मनो! हे भावमन से रहित!जिनदेव ! सम्यक् चारित्र को धारण करने वाले आपके उपासक मुझ मुनि से तथा इस काव्य के प्रत्येक छन्द से जैसा शान्त रस झर रहा है वैसा चन्द्रमा के बिम्ब से नहीं झरता ||७९ ।।
[८०] त्वयि रतो हि शठो भववैभव; समुपलब्धय ईश्वर वै भव । कृषिमतः कुरुते विधिहाऽवनौ, सकनकेन हलेन स हा! वनौ ।।
(११४)