________________
ओ अवन ! हे विधिहा ! भव!ईश्वर ! (इह) अवनौ भववैभवसमुपलब्धये त्वयि रतः वै शठ: हि (अस्ति) अतः स सकनकेन हलेन हा ! (असौ) कृषिम् कुरुते !
त्वयीति - ओ हे अवन! रक्षक! हे विधिहा ! कर्महा ! हे भव ! प्रशस्त ! ईश्वर!भगवन्! इह अवनौ पृथिव्यां भववैभवसमुपलब्धये भवस्य संसारस्य वैभव ऐश्वर्यं तस्य समुपलब्धये सम्यक्प्राप्त्यै त्वयि वीतरागजिनेन्द्रे रतो लीनः कृतप्रवृत्तिरित्यर्थः वै निश्चयेन शठोऽज्ञानी अस्ति । अतः स सकनकेन ससुवर्णेन हलेन सीरेण वनौ क्षेत्रे कृषि करोतीति हा खेदः। भोगाकाङ्क्षया जिनस्योपासनं ससुवर्णहलेन कृषिवसुधोत्कर्षणमिवाकार्यकरं भवतीति भावः ।। ८० ।।
अर्थ - ओ हे अवन ! हे रक्षक ! हे विधिहा ! हे कर्मों को नष्ट करने वाले ! हे भव ईश्वर प्रशस्त भगवन्! इस पृथ्वी में जो सांसारिक वैभव प्राप्त करने के लिए आप में लीन है - आपकी भक्ति करता है निश्चय से वह शठ है - अज्ञानी है अतः खेद है कि वह स्वर्ण के हल से खेती करता है। लोह के बदले स्वर्ण की अनी से युक्त हल के द्वारा खेत को जोता है ॥ ८० ॥
[८१]
अलमजे यमतोऽनियमो हतः, सविकलोऽशनतोपि विमोहतः । वसनतोपि जितेन्द्रियवामतः, परनतो विरतोऽपि भवामतः । ।
अज! जितेंद्रियवामतः वसनतः अलम् भवामतः विरतः (ततः) परनतः अपि (अलम् ) । अजे अनियमः हतः (अतः) यमतः (अलम् ) विमोहतः सविकलः (अतः ) अशनतः अपि अलम् (अस्तु ) |
अलमिति - ई अज! 'ई' इति सम्बुद्धिवाचकः । न विद्यते जा उत्पत्तिर्यस्य सोऽजस्तत्सम्बुद्धौ।यदि अनियमो न नियमोऽनियमः स्वैराचारो हतो नष्टो तर्हि यमतः संयमात् अलं पर्याप्तं स्वैराचारनिरोधस्यैव संयमत्वात् । यदि विमोहतो विगतो मोहो विमोहो मोहभावस्तस्मात् सविकलः सहितस्तर्हि अशनतोऽपि अन्नादपि अलं पर्याप्तम् शरीरगतमोहाभावे सति किमन्नेन ? जितेन्द्रियवामतः इन्द्रियाणि च वामश्च कामश्चेतीन्द्रियवामा जिता इन्द्रियवामा येन तस्मात् अथवा कामेन्द्रियं स्मरात्मना, सा जिता येन तस्मात् इन्द्रियकामविजयश्चेल्लब्धस्तर्हि वसनतो वस्त्रादपि अलं पर्याप्तं इन्द्रियविकारतिरोधानायैव ' वसनस्यावश्यकत्वात् । भवामतो भव एवामो रोगो भवामस्तस्मात् भवामतो विरतो निवृत्तश्चेत् तर्हि परनतोऽपि परश्च नश्चेति परनस्तस्मात् श्रेष्ठजिनादपि अन्यपूज्यादपीति वा अलं पर्याप्तम्। ‘जः स्याज्जविनि जोद्भूतौ जयने जिः प्रकीर्तितः । 'वामः सव्ये हरे कामे' । ' नकारौ जिनपूज्ययोः ’। ‘अमो रोगेऽपि तद्भेदे' इति सर्वत्र विश्वलोचनः । । ८१ । ।
( ११५)