________________
[५०] कुरु कृपां करुणाकर केवलं, क्षिप विदीशविदं मयि के बलम्।
तनुचितोः प्रविधाय विभाजनं, निजमये यदरं सुखभाजनम् ।। हे करुणाकर! विदीश केवलं कृपां कुरु मयि विदम् क्षिप, के (आत्मनि) बलं क्षिप। यत् (यस्मात्) तनुचितोः विभाजनम् प्रविधाय सुखभाजनम् निजम् अरम् अये। ___कुर्विति - हे करुणाकर! दयाकर! हे विदीश! विदो ज्ञानस्येशस्तत्सम्बुद्धौ । केवलं मात्रं कृपामनुकम्पां कुरु विधेहि। मयि स्तोतरि विदं ज्ञानं क्षिप। के आत्मनि। 'को ब्रह्मानिलसूर्याग्नियमात्मद्योतबर्हिषु' इति विश्वलोचनः। बलं वीर्यं क्षिप स्थापय। यत् यस्मात् तनुचितोः शरीरात्मनोविभाजनं विभागं प्रविधाय कृत्वा सुखभाजनं सुखपात्रं निजं स्वकीयमात्मानं अरं क्षिप्रं लघु क्षिप्रमरं द्रुतम्' इत्यमरः। अये प्राप्नोमि ।।५० ।। __अर्थ - हे दयाकर! हे ज्ञानेश्वर! मुझ पर कृपा करो, मुझमें ज्ञान डालो और मेरी आत्मा में बल स्थापित करो। जिससे मैं शरीर और आत्मा का विभागकर सुख के पात्रस्वरूप निज आत्मा को शीघ्र प्राप्त हो जाऊँ ।।५०।।
[५१ ] समयशामितरागविभावसुरुपगतः स्वयमेव विभावसु ।
मयि तथापि सरागतमालये, वससि देव कथं नियमालये।। हे देव!समयशामिंतरागविभावसुः(असि)स्वयम् एव विभावसु (बोधधनं) उपगतः (असि) तथापि मयि सरागतमालये नियमालये कथं वससि?
समयेति-हे देव! त्वं समयशामितरागविभावसुः समयेन संविदा शामितो विध्यापितो राग एव विभावसुरग्निर्येन स तथाभूतोऽसि । 'समयः शपथाचारकालसिद्धांतसंविदः' इत्यमरः । अथवा समयेन शामिता दूरीकृता रागो रतिरेव विभावसुर्निशा येन तथाभूतोऽसि । विभावसु विभैव वसु धनं । 'वसुतोये धने मणौ' इति कोषः । स्वयमेव स्वेनैव उपगतः प्राप्तोऽसि यद्यपि । तथापि सरागतमालये राग एव तमं ध्वान्तं रागतमं तेन सहित आलयस्तस्मिन् । 'ध्वान्तं संतमसं तमस्' इति धनंजयः । नियमालये नियंत्रणस्थाने मयि स्तोतरि कथं केन कारणेन वससि? निवासं करोषि? भवान् प्रकाशपुञ्जोऽहं च तिमिरालयः । द्वयोर्महदन्तरमस्तीति भावः ।। ५१।।
अर्थ-हे देव ! यद्यपि आप विज्ञान से रागरूपी अग्नि तथा निशा को नष्ट करने वाले हैं और आप स्वयं ही विभारूपी धन को प्राप्त हुए हैं, तथापि रागरूपी अंधकार के घर तथा नियमों के स्थानभूत मुझमें क्यों निवास कर रहे हैं । तात्पर्य यह है कि मैं सराग एवं अज्ञानी होता हुआ भी आपका ध्यान करता हूँ।।५१।।
(६६)