________________
[ ५२ ]
समयते निखिलं व्यवहारतः, स्वसमये नियतं भवहा ! रतः । सहजवृत्तिरियं हि सदा सतां, प्रवहतां जगतां न खदासताम् 11 हे भगवन्! स्वसमये नियतं रतः भवहा ! ( अस्ति ) ( अतः ) निखिलं व्यवहारतः समयते । सतां हि इयं सहजवृत्तिः सदा (अस्तु) खदासतां प्रवहतां जगतां न (अस्तु ) |
समयत इति-हे भवहाः! भवं संसारं जहातीति भवहास्तत्सम्बुद्धौ। विश्वपावत् क्विबंतप्रयोगः । नियतं यथास्यात्तथा निश्चयनयेनेत्यर्थः । त्वं स्वसमये स्वात्मनि रतो लीनोऽस्तीति शेषः । व्यवहारतो व्यवहारनयात् निखिलं सर्वं लोकालोकमिति यावत् समयते जानाति । निश्चयेन भवानात्मज्ञो व्यवहारेण सर्वज्ञ इति भावः । हि यतः । इयमेषा सहजवृत्तिः स्वभावपरिणतिः सतां साधूनां सदा सर्वदास्ति । खदासतां खानामिन्द्रियाणां दासतामधीनतां 'खमिद्रियं हृषीकं च स्रोतोऽक्षं करणं विदुः' इति धनंजयः । प्रवहतां दधतां प्राप्नुवतां वा जनानां नास्तीति शेषः ।। ५२ ।।
अर्थ - हे भवहाः ! संसार का परित्याग करने वाले जिनेन्द्र ! निश्चयनय से आप स्वसमय - शुद्धात्मस्वरूप में लीन हैं- उसी को जानते हैं और व्यवहारनय से सबको जानते हैं क्योंकि यह सहजवृत्ति - स्वाभाविक परिणति साधुजनों की सदा रहती है, इंद्रियों की दासता को धारण करने वाले - असाधुजनों की नहीं रहती ||५२||
[ ५३ ]
नहि जगज्जिन पश्यसि वस्तुतः सततमात्मपदं तु भवस्तुतः । त्वदुपयोगतले शुचिदर्शनेऽवतरतीव तदेव तु दर्शनें ।।
"
हे जिन! भवस्तुत:वस्तुतः सततं आत्मपदं पश्यसि नहि जगत् तु (पश्यसि ) ( यतः) शुचि दर्शने त्वदुपयोग दर्शने इव तदेव तु (जगत् एव) अवतरति । ।
नहीति - हे जिन ! भवस्तुतो भवेन संसारेण स्तुतस्त्वं वस्तुतः परमार्थतः सततं सदा आत्मपदं स्वस्वरूपं पश्यसि विलोकसे जानासि जगत् तु लोकं तु नहि पश्यसि । यतः शुचिदर्शने शुचि समुज्ज्वलं दर्शनं यस्य तस्मिन् त्वदुपयोगतले तव उपयोगस्त्वदुपयोगस्तस्य तले स्वरूपे । ' स्वरूपानूर्ध्वयोस्तलम्' इत्यमरः । तदेव जगत्तु दर्शने दर्पणे अवतरतीव प्रतिफलतीव यथा घटपटादयोऽर्था दर्पणतले प्रतिफलन्ति तथा जगदेतत् त्वदुपयोगतले केवलज्ञानमध्ये प्रतिफलतीत्यर्थः ।। ५३ ।।
-
अर्थ- हे जिन ! संसार सभी जनों के द्वारा स्तुत आप यथार्थ से निरंतर आत्मपद–स्वरूप को देखते हैं - जानते हैं जगत् को नहीं । वही जगत् निर्मल दर्शन वाले आपके उपयोगतल में - केवलज्ञान में दर्पण की तरह प्रतिफलित होता है || ५३ ||
(१००)