________________
[४८]
शिवपथे चरता व्रतसंगतः, प्रसमयोऽपि मया जिन संगतः ।
ननु कियत् सदनं प्रविराजते, प्रवद दूरमितोऽप्यजराज ! ते ।।
जिन ! अजराज ! व्रत संगतः मया शिवपथे चरता प्रसमयः अपि संगतः (अतः ) ते सदनम् ननु इतः कियत् दूरम् प्रविराजते प्रवद ।
शिवपथ इति हे जिन! हे अजराज ! अजानां जन्मरहितानां राजा अजराजस्तत्सम्बुद्धौ। व्रतसंगतो व्रतप्राप्तेः शिवपथे मोक्षमार्गे चरता गच्छता मया प्रसमयोऽपि दीर्घकालोऽपि संगतो व्यतिगमितः । अतस्ते सदनं गृहं इतोऽपि अस्माद् भवात् कियत् दूरं प्रविराजते शोभते इति प्रवद कथय । प्राप्तव्यपुरपद्धतौ चिरं व्रजन्नपि जनो यदा स्वेष्टपुरं न प्राप्नोति तदा स पुरस्तादायातं कञ्चित्पृच्छति कियद्दूरं तत्पुरं वर्तते इति ? एवं चारित्रं गृहीत्वा मोक्षमार्गे चिरं चरन्नपि यदा मोक्षं न प्राप्नोति तदा स भगवन्तं पृच्छति - कियद्दूरं वर्तते ते सदनमिति ।। ४८ ।।
अर्थ - हे जिन ! हे अजराज ! व्रतधारण कर मोक्षमार्ग में विचरते हुए मैंने अधिक समय व्यतीत किया है। अतः निश्चय से आप कहिये कि आपका वह सदन यहाँ से कितनी दूर सुशोभित हो रहा है || ४८||
·
[४९]
अमितभा सति भाति विभावतः, परमभानुरसीश!विभावतः । वद कथं यदि नोऽप्यमलोद्भवेन्मम तपोमणितोऽप्यनलो भवे ।।
हे ईश! अमल! विभावतः (तव) अमितभा सति विभौ भाति भवे अतः परमभानुः असि। यदि नो मम तपोमणितः अपि अनलः कथं उद्भवेत् (इति) वद । ।
अमितभेति - हे ईश! हे अमल ! कर्मकालुष्यरहितत्वाद्विमल! विभावतः विभा प्रभा विद्यते यस्य स विभावान् तस्य तव अमितभा अपरिमितदीप्तिः विभौ त्वयि सति विद्यमाने भाति शोभते अतस्त्वं भवे लोके परमभानुः श्रेष्ठादित्योऽसि । यदि नो, त्वमादित्यो नासि चेत्तर्हि मम स्तोतुः तपोमणितस्तप एव मणिः सूर्यकान्तस्तस्मादपि अनलोऽग्निः कथमुद्भवेत् उत्पद्येत ? इति वद । । ४९।।
अर्थ - हे ईश! हे अमल ! विभासम्पन्न आपकी अपरिमित प्रभा आप विभु के रहते हुए ही सुशोभित होती है। अतः इस जगत् में आप उत्कृष्ट सूर्य हैं। यदि ऐसा नहीं है, तो मेरे तपरूपी सूर्यकान्तमणि से अग्नि क्यों प्रकट होती है ? ।। ४९ ।।