________________
अर्थ - हे मुनीन्द्र ! स्वर्णनिर्मित छत्रत्रयादि वैभव को प्राप्त होने पर भी आपक उस ओर रुचि- प्रीति नहीं है । तथा अत्यन्त शान्त रहने वाले आपकी गरिमा - महिमा गणधरों द्वारा भी जब नहीं गायी जाती है तब मेरी अल्पवाणी क्या है ? कुछ नहीं । । ३१ । ।
[३२]
विशदविवनिता त्वयि तेज ! सा, समनुभाति सदाव्ययतेजसा । शशिनि शीतकरैर्निशि वामतः, शशिकलैवमलं व्ययवामतः । ।
हे अज! ते सा विशदविवनिता त्वयि सदा अव्ययतेजसा समनुभाति । ( किन्तु ) शशिनि शीत—करैः निशि वामतः व्ययवामतः शशिकला एवं अलम् ?
विशदेत्यादि - हे अज ! न जायत इति अजः तत्सम्बुद्धौ । हे जन्मातीत! भगवन् ! ते तव सा प्रसिद्धा विशदविवनिता विशदा व्यक्ता या विद् ज्ञानं सैव वनिता रमणी केवलज्ञानरमणी त्वयि भवति सदा शश्वत् अव्ययतेजसा अविनश्वरप्रतापेन समनुभाति विशोभते। किन्तु निशि नक्तं शीतकरैः शीतरश्मिभिः उपलक्षिते इति शेषः । शशिनि चन्द्रमसि शशिकला चन्द्रकला वामतः मेघात् मेघेनाच्छादितत्वादिति यावत् व्ययवामतो व्ययो विनाशस्तेन वामतः कौटिल्यात् अथवा विशिष्टोऽयः शुभावहो विधिस्तस्य वामतः वैपरीत्यात् हेतोः एवं केवलज्ञानरमणीवत् अलं नह्यस्ति । निषेधार्थेऽव्ययः । 'विषदविवनिता' इति पाठे विषं संसारपरिभ्रमणरूपं गरलं द्यति खण्डयतीति विषदा सा चासौ विच्चेति विषदविद् सैव वनिता रमणी केवलज्ञानलक्ष्मीरित्यर्थो योज्यः । 'वामः सव्ये हरे कामे धने वित्ते तु न द्वयोः' इति विश्वलोचनः । 'अयः शुभावहोविधिः ' इत्यमरः ।। ३२ ।।
अर्थ - हे अज ! जन्मातीत जिनेन्द्र ! आपकी वह प्रसिद्ध केवलज्ञानरूपी रमणी आप में अपने अविनाशी तेज से सदा सुशोभित रहती है । परन्तु रात्रि के समय शीत रश्मियों से उपलक्षित चन्द्रमा में चन्द्रकला ऐसी नहीं है, क्योंकि वह वाम मेघ से आच्छादित हो जाती है और भङ्गुर - नश्वर होने से वाम - कुटिलरूप भी है ।। ३२ ।।
-
[३३]
मुदमुपैमि मुनिर्मुनिभावतो, मुखमुदीक्ष्य विभो ! सुविभावतः । जलभृतं जलदं जलदाध्वनि, किल शिखीव गतं सुगुरुध्वनिम् ।।
हे गुरो ! विभो ! जलदाध्वनि सुगुरुध्वनिम् गतम् जलभृतम् किल शिखी इव उदीक्ष्य सुविभावतः मुखम् (अहम् ) मुनिः मुनिभावतः ( उदीक्ष्य) मुदम् उपैमि ।
'विषदविवनिता' इति पाठे ।
(tt)