________________
मुदमिति - विभो ! हे स्वामिन्! जलदाध्वनि जलदानां मेघानामध्वा मार्गस्तस्मिन् आकाशे सुगुरुध्वनिं सुगुरुश्चासौ ध्वनिश्च तं विपुलगर्जनं गतं प्राप्तं गर्जन्तमिति यावत् जलभृतं पयःपूर्णं जलदं मेघम् । उदीक्ष्य उन्मुखः सन् वीक्ष्य शिखीव मयूर इव मुनिः स्तोताहमित्यर्थः। मुनिभावतो मुनेरिव भावो मुनिभावस्तस्मात् सुविभावतः शोभना विभा दीप्तिरिति सुविभा सा विद्यते यस्य स सुविभावान् तस्य सुदीप्तिमतस्तव मुखं वदनं उदीक्ष्य विलोक्य मुदं हर्षं उपैमि प्राप्नोमि । किलेति वाक्यालङ्कारे । । ३३ । ।
अर्थ - हे विभो ! आकाश में गरजते जलभरे मेघ को देखकर जिस प्रकार मयूर प्रमोद को प्राप्त होता है उसी प्रकार स्तुति करने वाला मैं, मुनि जैसे पवित्रभाव से उत्तमदीप्ति से युक्त आपका मुख देखकर प्रमोद को प्राप्त हो रहा हूँ ।। ३३ ।।
[३४]
विभुरसीह सताम् जिन संगतः, पृथगसीश सुखीति च संगतः । ननु तथापि मुनिस्तव संगतः, सुखमहं स्मय एष हि संगतः । ।
हे ईश ! जिन ! इह संगतः (सर्वगतत्वात् ) सताम् विभुः असि । संगतः पृथक् इति सुखी असि च । तथापि एषः स्मयः हि अहम् मुनिः तव संगतः ननु सुखम् संगतः ।
विभुरिति - हे ईश ! हे जिन ! इह जगति संगतः समन्ताद् गतः संगतो ज्ञानेन लोकालोकव्यापकत्वात् त्वं सतां सत्पुरुषाणां विभुः प्रभुः असि वर्तसे । संगतः परिग्रहतः परजनसंसर्गाद् वा पृथक् असि । इति हेतोः सुखी चासि । तथापि एष स्मय आश्चर्यं यदहं मुनिः स्तोता तव भवतः संगतः संगात् संपर्कादिति यावत् । नेनु निश्चयेन सुखमात्मोत्थसातं संगतः सम्यक्प्रकारेण प्राप्तः । हि पादपूर्ती ।। ३४ ।।
अर्थ - हे ईश ! हे जिन ! इस जगत् में ज्ञान की अपेक्षा लोकालोक में व्याप्त होने से आप सत्पुरुषों के स्वामी हैं । संगतः - परिग्रह अथवा परजनसंपर्क से पृथक् हैं। अतः सुखी हैं। यद्यपि संग से पृथक् होने के कारण आप सुखी हैं, तथापि आपके संग से मैं मुनि आत्मसुख को प्राप्त हुआ हूँ। यह आश्चर्य है ||३४||
[३५]
लसति भानुरयं जिनदास! खे, नयति तापमिदं च सदा सखे! जितरविर्महसा सुखहेतुकम्, उरसि मेऽस्ति तथात्र न हे तुकम् ।।
हे सखे! जिन दास ! खे अयं भानुः लसति सदा तापम् इदम् (जगति च) नयति । (किन्तु ) अत्र मे उरसि महसा जितरविः सुखहेतुकं अस्ति । तथा तुकम् (भां बालम्) (तापम्) न नयति ।
(६०)