________________
[३०] गुणगणैर्गुरुभिश्च समानतः, स्वचितये समगोऽसि समानतः ।
सनिजमात्र इवावनये नगः,कुसुमपत्रफलैश्च नयेऽनघः ।। नये अनवः स नगः अवनये निजमात्रे कुसुमपत्रफलैः च समानतः इव हे! देव! स्वचितये गुरुभिः गुणगणे: समानतः असि | समानतः (हेतौ) समगः (असि)।
गुणगणैरिति - नये नीतौ 'नयो द्यूतान्तरे नीतौ' इति विश्वलोचनः। अनघो निर्दोषः स प्रसिद्धो नगो वृक्षो। इव यथा। कुसुमपत्रफलैः कुसुमानि च पत्राणि च फलानि च तैः निजमात्रे स्वजनन्यै अवनये पृथिव्यै समानतः सम्यक्प्रकारेण समानतो. भवति नम्रो जायते तथा गुरुभिर्भरैः गुणगणैः सम्यग्ज्ञानादिगुणसमूहैः त्वं स्वचितये स्वचितिस्तस्यै स्वकीयचे तनायै समानतोऽसि । इत्थं समानतः सदृशत्वात् हेतोः समगोऽसि समं सादृश्यं गच्छतीति तथासि। यथा लोकव्यवहारनिपुणो वृक्षः कुसुमपत्रफलनिचयैर्नम्रीभूतः सन् स्वजनदात्री धरां प्रणमतीव तथा दुर्भरैः ज्ञानादिगुणगणैः संगतस्त्वं गुणगणजन्मदात्री स्वकीयां चेतनां प्रणमसीति भावः ।।३०।।
___ अर्थ - हे भगवन् ! जिस प्रकार नीति का निर्दोष पालन करने वाला वृक्ष पुष्प, पत्र और फलों से विनत हो अपनी जननी तुल्य पृथिवी के लिए प्रणाम करता है। उसी प्रकार बहुत भारी गुणसमूह से संगत आप गुणसमूह को उत्पन्न करने वाली स्वकीय चेतना को प्रणाम करते से जान पड़ते हैं ।।३०।।
[३१] नहि रुचिस्तव तां प्रति कांचनप्रकृतभूति मितोऽपि च काचन।
गणधरैःशमिन स्तव गीयते, न गरिमा ममका तनुगीर्यते! ।। हे यते कांचन प्रकृत भूतिम् इतः अपि तव ताम् प्रति काचन रुचिः नहि (अस्ति) । तव शमिनः गरिमा गुणधरैः (अपि) न गीयते (तदा) मम तनुगीः का।
नहीति - हे यते! काञ्चनप्रकृतभूतिं काञ्चनेन स्वर्णेन प्रकृता प्रकर्षेण कृता रचिता या भूतिः छत्रत्रयसिंहासनादिसंपदं 'भूतिर्भस्मनि सम्पदि' इत्यमरः। इतः एति गच्छति प्राप्नोतीति इत् तस्य 'इण्धातोः क्विबन्तप्रयोगः प्राप्नुवतोऽपि तव भवतस्तां प्रति काचन कापि रुचिः प्रीतिः नहि वर्तत इति शेषः। किञ्च, शमिनः प्रशमगुणोपेतस्य गरिमा गुरोर्भावो गरिमा गुरुता महत्त्वमिति यावत् गणधरैश्चतुर्ज्ञानधारिभिः गणेन्द्रैरपि न गीयते न गातुं शक्यते यदा, तदा मम स्तोतुः तनुगीः अल्पबुद्धिः का किंनामधेया?।।३१।।
(८)