________________
उचितमेव सदा भुवि उचितसाधनम् शुभं धनं सहसा ददाति । ।
विगतेति - हे भगवन् ! त्वं विगतरागतया वीतरागपरिणतिरूपया अहिंसया स्वं स्वकीयं शिवं सुखं मोक्षं वा 'शिवं मोक्षे सुखे जले' इति विश्वलोचनः । ' अप्रादुर्भावः खलु रागादीनां भवत्यहिंसा तु । तेषामेवोत्पत्तेहिंसेति जिनागमस्य संक्षेपः।। ' इत्युक्तेर्विरागपरिणतेरहिंसात्वं सिद्धम्। जगत् लोकस्थितो जनो हिंसया सरागपरिणामेन शिवं मोक्षं सुखं वा नेतं न प्राप्तम् । उचितमेव युक्तमेवैतत् यत् भुवि पृथिव्यां उचितसाधनं योग्यनिमित्तं सदा सर्वदा सहसा झटिति शुभमिष्टं धनं वित्तं ददाति वितरति । वीतरागपरिणतिरेव मोक्षस्य सुखस्य वा कारणं, सरागपरिणतिः संसारस्य दुःखस्य वा कारणमित्यर्थः । । २८।।
अर्थ - हे भगवन् ! आप वीतरागतारूप अहिंसा से शिव - मोक्ष अथवा सुख को को प्राप्त हुए हैं। इसके विपरीत सरागता रूप हिंसा से जगत् शिव - मोक्ष अथवा सुख प्राप्त नहीं हो रहा है। यह उचित ही है कि पृथिवी पर योग्य साधन ही सदा इष्ट धन को शीघ्र देता है, अयोग्य साधन नहीं ।
भावार्थ वीतरागपरिणति सुख का और सरागपरिणति दुःख का कारण है ।।२८।।
-
[२९]
अनुदिनं त्वयि यो रमतेऽञ्जसा, भवति ते स समः समतेजसा । वपुरदोऽपि जडं परमं भवेन्ननु तदा चिदियं न भवेद् भवे ।।
हे भगवन् ! त्वयि यः अनुदिनं रमते स अंजसा समतेजसा (साकं ) ते समः भवति । भवे अदः जडं अपि वपुः परमं भवेत् (तदा) इयं चित् ननु न भवेत् (भवेदित्यर्थः) । अनुदिनमिति - हे भगवन् ! यो जनः अनुदिनं प्रत्यहं शश्वदित्यर्थः त्वयि भवति अञ्जसा याथार्थ्येन रमते रमणं करोति त्वत्स्वरूपं ध्यायतीत्यर्थः स जनः समतेजसा मया लक्ष्म्या सहितं समं, समं च तत्तेज इति समतेजः तेनानन्तचतुष्टयलक्ष्मीविलसितप्रभावेण ते तव समः सदृशो भवति । उचितमेवैतत् यदा जडं ज्ञानरहितं अदस्तत् वपुरपि शरीरमपि परमं परमौदारिकत्वेन श्रेष्ठं भवेत् तदा भवे लोके इयमेषा चित् चेतना परमा न भवेत् ? अपि तु भवेदेव । काकुप्रयोगः ।। २९ । ।
अर्थ - हे भगवन्! जो मनुष्य प्रतिदिन आप में रमण करता है आपके ध्यान में लीन रहता है वह अनन्तचतुष्टरूपलक्ष्मी से युक्त तेज से आपके समान हो जाता है। उचित ही है, कि जब वह अचेतन शरीर भी आपके सम्पर्क से परम-श्रेष्ठ परमौदारिक बन जाता है तब यह ज्ञानदर्शन सम्पन्न जीव क्या आपके समान नहीं हो सकेगा ? अवश्य हो सकेगा ।। २९ ।।
(८७)
--
—