________________
[२५] असि शुचिश्च शशीव सुकेवली, गमित इत्यपि नो कुधियाऽबली।
असित एव शशी कुदृशा सितः, सदय यद्यपि यः सुदृशा शितः ।। हे सदय ! शशी इव शुचिः सुकेवली च असि (तथापि) कुधिया अपि नो इति गमितः (किन्तु) अबली (गमितः) यद्यपि यः शशी सुदृशा शितः (ज्ञातः) (तथापि) कुदृशा असितः एव सितः।।
असीति- हे सदय! दयया सहितः सदयस्तत्सम्बुद्धौ, हे सकृप! यद्यपि त्वं शशीव चन्द्र इव शुचिर्निर्मलः सुकेवली शोभनकेवलज्ञानयुक्तः। असि वर्तसे। तथापि कुधिया मिथ्याज्ञानयुक्तेन जनेन तथा न गमितो न स्वीकृतः। अपि तु अबली न बली अबली अनन्तबलरहित इति गमितः स्वीकृतः। तदेवोदाहरति - यद्यपि कुदृशा विकृतदृष्टियुक्तेन जनेन शशी चन्द्रः असितो न सितोऽसित: श्वेतवर्णरहितः सितो ज्ञातः 'सितं श्वेतसमाप्तयोः त्रिषु ज्ञातेऽपि बंद्धेऽपि' इति विश्वलोचनः। तथापि सुदृशा निर्विकृतिदृष्टियुक्तेन शितः शुक्लः एव सितो ज्ञातः शितः कृष्णे सिते भूर्जे ' इति विश्वलोचनः। यथा विकृतलोचनो जनश्चन्द्र विकृतं पश्यति तथा मिथ्यादृष्टिर्जनो भवन्तं विकृतं पश्यति, यथा च सुलोचनश्चन्द्रं यथार्थं पश्यति तथा सम्यग्दृष्टिरपि भवन्तं यथार्थं पश्यति श्रदृधातीति भावः ।।२५।। . ____ अर्थ - हे कृपालु जिनेन्द्र! यद्यपि आप चन्द्रमा के समान उज्ज्वल और उत्तम केवलज्ञान से युक्त हैं तथापि कुवुद्धिजन आपको वैसा नहीं मानते। वह आपको अबली -बलहीन मानते है। उचित ही है, क्योंकि विकृत नेत्रवाला-पीलिया रोगवाला मनुष्य चन्द्रमा को असित – पीला जानता है, परन्तु निर्विकार नेत्रवाला मनुष्य चन्द्रमा को सित -शुक्ल ही जानता है ।।२५।।
_[२६] मतिरियं भवता मयि भाविता, रुचिमतो भवतीह विभाविता ।
जगदिदं क्षणिकं नहि रोचते, गुरुमुखं प्रविहाय गुरो! च ते ।। हे गुरो! मयि इयं मतिः भवता अतः इह भवति विभौ च रुचिम् (सा) इता (अतः) ते गुरुमुखम् प्रविहाय इदम् क्षणिकम् जगत् च नहि रोचते ।
___ मतिरिति - हे गुरो! हे श्रेष्ठ! मयि स्तोतरि विद्यमाना इयं मतिर्बुद्धि र्यस्मात् कारणात् भवता जगदुद्धारकेण त्वया भाविता सुसंस्कारिता अतोऽस्मात्कारणात् इह जगति विभौ प्रभुत्वगुणसंयुक्त्वे त्वयि रुचिं श्रद्धां प्रीतिं वा इता प्राप्ता। च किञ्च ते तव गुरुमुखं श्रेष्ठमुखं प्रविहाय त्यक्त्वा इदमेतत् क्षणिकं भङ्गुरं जगत् न हि रोचते रुचिकरं नास्ति मद्यमिति शेषः। 'गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति विश्वः ।।२६।।
(८५)