SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ नमिऊणस्तोत्रम् || अनया गाथया एतत्स्तोत्रमाहात्म्यं वर्ण्यते । ॥ गाथा ॥ एवं महाभयहरं पासजिणिदस्स संथवमुआरं भवियजणाणंदयरं कल्लाणपरपरीनहाणं ॥ १९ ॥ (छाया) एवं महाभयहरं पार्श्वजिनेन्द्रस्य उदारं संस्तवं भव्यजनानंदकरं कल्याणपरंपरानिदानं चास्ति, अथवा भव्यजमानां कल्याणपरं परनिभानांच बंधकरं अस्ति ||१९|| ( विवरणम् ) एवं पूर्वोक्ताष्टमहाभयजनितानर्थप्रतिघातकत्वेन विश्रुतं पार्श्व भगवतः उदारं अल्पशब्दसंघातमपिमहत्फलप्रदायकं संस्तवनं इदं नमिऊणाभिधस्तोत्रं भव्यजनानंदकरं भव्याः मुक्तिगमनयोग्याः ये जनाः प्राणिनः तेषां मोक्षप्रदानेन आनंदकरं सुखकरं कल्याणपरंपरानिदानं कल्याणस्य मंगलस्य परंपरा संततिः तस्याः निदानं आदिकारणं च अस्ति । अथवा भव्याः भगद्भत्तयैकरसाः ये जनाः मानवाः तेषां कल्याणपरं मंगलैकदीक्षाधरं तथा परे शत्रवः तेषां निभाः कपटानि तेषां बंधकरं नियंत्रकं अस्ति ॥ १९ ॥ २७
SR No.002456
Book TitleStotradi Sangraha
Original Sutra AuthorN/A
AuthorKantimuni, Shreedhar Shastri
PublisherZZZ Unknown
Publication Year
Total Pages214
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy