SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ नमिऊणस्तोत्रम् ॥ (छाया) भिल्लतस्करपुलिंदशार्दुलशब्दभीमासु भयविव्हलविषण्णाकातरोल्लुण्ठितपथिकसार्थासु अटवीषु हे नाथ तय प्रणाममात्रव्यापाराः अतएव अविलुप्तविभवसाराः ते जनाः व्यपगतविघ्नाःसंतः शीघ्रं हृदि इच्छितं स्थानं प्राप्ताः भवन्ति ॥ १०-११ ॥ (विवरणम् ) . भिल्लाः आरण्यकाः तस्कराः चौराः पुलिन्दाः वनचरजीवाः ( भिल्लाः पुलिन्दाश्च वनचरभेदाः) शार्दुला सिंहाश्च तेषांशद्वाः तैर्भीमासु भयप्रदासु भयेन भीत्या विव्हलाः व्याकुलीकृताः विषण्णाः दुःखिता अकातरी अभीरुभिः भिल्लैः उल्लुण्ठिताः अपहृतसर्वस्वाः एतादृशाः पथिकसार्थाः अध्वगसंघाः यासु तथाविधासु अटवीषु गहनवनेषु हे नाथ हे स्वामिन् तव प्रणामएव प्रणाम मात्रं प्रणतिमात्रं तदेव व्यापारः येषां ते अतएव अविलुप्ताः अपरिहृताः विभवसाराः उत्कृष्टधनं येषां ते जनाः व्यपगताः विनष्टाः विघ्नाः अन्तरायाः येषां ते शीघ्र स्वरितं हृदि अन्तःकरणे इच्छितं अभिलषितं स्थान प्रदेशं प्राप्ताः आसादितवन्तः भवन्ति ॥ १०.११ ॥
SR No.002456
Book TitleStotradi Sangraha
Original Sutra AuthorN/A
AuthorKantimuni, Shreedhar Shastri
PublisherZZZ Unknown
Publication Year
Total Pages214
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy