________________
नमिऊणस्तोत्रम् ॥
अणाभोअं ! जेसंभरतिमणुआ नकुणइजलणो
भयंतासं ॥ ७ ॥
९
( छाया ) खरपवनोद्धतवनदवञ्वालावलिमिलितसकलद्रुमगहने द ह्यन्मुग्धमृगवधूभीषण रवभषिणवने, अथवा दह्यान्तमुग्धमृगबहुभीषण रवभीषणवने ये मनुजा निर्वापितसकलत्रिभुवनाभोगं एतादृशं जगद्गुरोः क्रमयुगलं संस्मरति तेषां ज्वलनो भयं न करोति ॥ ६-७ ॥
( विवरणम् )
खरः प्रचण्डः पवनः वायुः तेन उद्धतः प्रसारितः चनदवः दावानलः तस्य ज्वाला: अर्चिषः तासां आवलिः श्रेणिः तया मिलिताः संस्पृष्टा दह्यमानाः इत्यर्थः सकलाः समग्राः द्रुमाः वृक्षाः यस्मिन् तत् गहनं वनं तस्मिन् तथा दह्यमानाः प्लुष्यमाणशरीरावयवाः मुग्धाः सरला: याः मृगवध्वः हरिण्यः तासां भीषणः भयंकरः रवः आकंदः तेन भीषणं भयप्रदं वनं अरण्यं तस्मिन् अथवा दग्धुं शक्यं दह्यं वनं तस्य अन्तः अवसानं यस्मिन् स दह्यान्तः दावाग्निः तेन सुग्धाः मुच्छिताः मृगाः वनपशवः तेषां बहुभीषणः अत्यन्तभयानकः रवः