________________
( ४४ )
पंचविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जटी मुंडी शिखी वापि मुच्यते नात्र संशयः ॥ २६३ ॥
असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावात् च सत्कार्यम् ॥ २६४ ॥
भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्व । कारण कार्यविभागादविभागाद् वैश्वरूप्यस्य || २६५ ।।
ब्रह्माकी स्तुति ।
- रजोजुषे जन्मनि सत्रवृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे । जाय सर्गस्थितिनाशतंत्रिणे त्रयीमयाय त्रिगुणात्मने नमः ॥ पुरुषस्य दर्शनार्थ कैवल्यार्थं तथा प्रधानस्य | पुग्वन्द्यवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २६६ ॥
रागान्धकी दशा कैसी होती है ।
दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति । कुन्देदीवर पूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमा - गात्रेषु यन्मोदते ॥ २६७ ॥
चोद्येऽपि यदि चोद्यं स्यात् तव चोद्यं चोद्यते मया । तस्माद्योद्यं परीहार्य नास्ति चोद्यस्य चोद्यता ॥ २६८ ॥