________________
श्री सरस्वती स्तोत्रम्.
अजया जात अढार, वांची साते बेटा । जपतां एहीज जाप, भगतसुं न करे मेटा ॥ उतरें अंग चढीया, पलमें तारी वयणे मुदा । कहे कान्ति रोग नावे कदे, सार मंत्र गणीहं सदा ॥ १६ ॥
(७९)
श्री सरस्वती स्तोत्रम् |
द्रुतविलम्बित छन्दः ।
कलमरालविहङ्गमवाहना, सितदुकूलविभूषणभूषिता । प्रणत भूमिरुद्दामृतसारणी, प्रवरदेहविभाभरधारिणी ॥ १ ॥ अमृतपूर्ण कमण्डलुधारिणी, त्रिदश-दानव-मानवसेविता । भगवती परमैव सरस्वती, मम पुनातु सदा नयनाम्बुजम् ॥२॥ जिन पतिप्रथिताखिलवाङ्मयी, गणधराननमण्डपनर्तकी । गुरुमुखाम्बुजखेल नहंसिका, विजयते जगति श्रुतदेवता ||३|| अमृतदीधितिविम्ब समाननां त्रिजगतीजननिर्मित माननाम् । नवरसामृतवीचिसरस्वतीं, प्रमुदितः प्रणमामि सरस्वतीम् ॥४॥ विततकेत कपत्रविलोचने, विहितसंसृतिदुष्कृतमोचने । धवलपचविहङ्गमलाञ्छिते, जय सरस्वति । पूरितवाञ्छिते ॥ ५ ॥ भवदनुग्रहलेश तरङ्गिता, - स्त्वदुचितं प्रवदन्ति विपश्चितः । नृपसभासु यतः कमलाबलात्, कुचकलाललनानि वितन्वते ॥६ गतधना अपि हि त्वदनुग्रहात्, कलितकोमलवाक्य सुधोर्म्मयः । चकितबालकुरङ्गविलोचना, जनमनांसि हरन्तितरां नराः ॥७॥ करसरोरुहखेलनचञ्चला, तव विभाति वरा जपमालिका । श्रुत पयोनिधिमध्यविकस्वरो-ज्ज्वलतरङ्गकाग्र हसाग्रहा ||८||