________________
श्री सप्त स्मरणादि नित्यस्मरण.
धुरयं विहताधिकारः । मुक्ताकलापकलितोच्वसितातपत्र,व्याजात् त्रिधा धृततनुर्बुवमभ्युपेतः ॥ २६ ॥ स्वेन प्रपूरितजगत्रयपिण्डितेन, कान्तिप्रतापयशसामिव संचयेन । माणिक्यहेमरजतप्रविनिर्मितेन, सालत्रयेण भगवन्नभितो विभासि ॥ २७ ॥ दिव्यस्रजो जिन ! नमत्रिदशाधिपाना-मुत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वा परत्र, त्वत्सङ्गमे सुमनसो न रमन्त एव ॥ २८ ॥ त्वं नाथ ! जन्मजलधेर्विपराङ्मुखोऽपि, यत्तारयस्यसुमतो निजपृष्ठलग्नान् । युक्तं हि पार्थिवनिपस्य सतस्तवैव, चित्रं विभो! यदसि कर्मविपाकशून्यः ।। २६ ।। विश्वेश्वरोऽपि जनपालक ! दुर्गतस्त्वं, किं वाऽक्षरप्रकृतिरप्यलिपिस्त्वमीश ।। अज्ञानवत्यपि सदैव कथंचिदेव, ज्ञानं त्वयि स्फुरति विश्वविकाशहेतुः ।। ३० ॥ प्राग्भारसंभृतनभांसि रजांसि रोषा,-दुत्थापितानि कमठेन शठेन यानि । छायाऽपि तैस्तव न नाथ ! हता हताशो, ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१॥ यदर्जदुर्जितधनौघमदभ्रभीमं, भ्रश्यत्तडिन्मुशलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दधे, तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् ॥ ३२ ॥ ध्वस्तोकेशविकृताकृतिमय॑मुण्ड,-. प्रालम्बभृद्भयदवक्त्रविनियंदग्निः । प्रेतवनः प्रति भवन्तमपीरितो यः, सोऽस्याभवत् प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥ धन्यास्त एव भुवनाधिप ! ये त्रिसन्ध्य-माराधयन्ति विधिवद्विधुतान्यकृत्याः । भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः, पादद्वयं तव विभो ! भुवि जन्ममाजः ॥ ३४ ॥ असिन्नपारभव