________________
श्री कल्याण मन्दिर स्तोत्रम् |
(६५) वारिनिधौ मुनीश !, मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्र पवित्रमन्त्रे, किं वा विपद्विषधरी सविधं समेति ? ॥ ३५ ॥ जन्मान्तरेऽपि तव पादयुगं न देव !, मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश ! पराभवानां, जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ॥ नूनं न मोहतिमिरावृतलोचनेन, पूर्व विभो ! सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनर्था:, प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ? ।। ३७ ।। कर्णितोऽपि महितोऽपि निरीक्षितोऽपि, नूनं न चेतसि मया विधृतोऽसि भक्त्या | जातोऽस्मि तेन जनबान्धव ! दुःखपात्रं यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः || ३८ ॥ त्वं नाथ दुःखिजनवत्सल हे शरण्य !, कारुण्यपुण्यवसते ! वशिनां वरेण्य ! | भक्त्या नते मयि महेश ! दयां विधाय, दुःखाकुरोद्दलनतत्परतां विधेहि ।। ३९ ।। निःसङ्ख्यसारशरणं शरणं शरण्य-मासाद्य सादितरिपु प्रथितावदातम् । त्वत्पाद - पङ्कजमपि · प्रणिधानवन्ध्यो, वध्योऽस्मि चेद् सुत्रनपावन ! हा इतोऽस्मि ॥ ४० ॥ देवेन्द्रवन्द्य विदिताखिलवस्तुसार 1, संसारतारक विभो भुवनाधिनाथ ! | त्रायस्व देव करुणाइद ! मां पुनीहि सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१ ॥ यद्यस्ति नाथ ! भवदङ्घ्रिसरोरुहाणां, भक्तेः फलं किमपि संततिसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य भूयाः, स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समा
⋅