________________
श्री कल्याण मन्दिर स्तोत्र.
६३
•
नो विषविकारमपाकरोति १ ॥ १७ ॥ त्वामेव वीततमसं परवादिनोऽपि, नूनं विभो ! हरिहरादिधिया प्रपन्नाः । किं काच कामलिभिरीश ! सितोऽपि शङ्खो, नो गृह्यते विविधवर्णविपर्ययेण ? ॥ १८ ॥ धर्मोपदेशसमये सविधानुभावा, - दास्तां जनो भवति ते तरुरप्यशोकः । श्रभ्युद्गते दिन पतौ समहीरुहोऽपि किं वा विबोधमुपयाति न जीवलोकः ? ॥ १६ ॥ चित्रं विभो ! कथमवाङ्मुखवृन्तमेव, विष्वक् पतत्यविरला सुरपुष्पवृष्टिः । त्वद्गोचरे सुमनसां यदि वा मुनीश !, गच्छन्ति नूनमध एव हि बन्धनानि ॥ २० ॥ स्थाने गभीर हृदयोदधिसंभवायाः, पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसंमदसंगभाजो, भव्या व्रजन्ति तरसाध्यजरामरत्वम् ॥ २१ ॥ स्वामिन् ! सुदूरमवनम्य समुत्पतन्तो, मन्ये वदन्ति शुचयः सुरचामरौघाः । येऽस्मै न विद्यते मुनिपुङ्गवाय ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ।। २२ ।। श्यामं गभीरगिरमुज्ज्वलहेमरत्न, - सिंहासनस्थमिह भव्य शिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमुच्चै, - चामीकराद्रिशिरसीव नवाम्बुवाहम् ॥ २३ ॥ उगच्छता तव शितिद्युतिमण्डलेन, लुप्तच्छदच्छावरशोकतरुर्बभूव । सान्निध्यतोऽपि यदि वा तत्र वीतराग !, नीरागतां व्रजति को न सचेतनोऽपि ॥ २४ ॥ भो भोः प्रमादमवधूय भजध्वमेन -मागत्य निर्वृतिपुरीं प्रति सार्थवाहम् । एतन्निवेदयति देव ! जगत्रयाय, मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते || २५ || उद्योतितेषु भवता भुवनेषु नाथ |, तारान्वितो वि
1