________________
દર
श्री सप्त स्मरणादि नित्यस्मरण. मनुजाः सहसा जिनेन्द्र, रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, । चौरैरिवाशु पशवः प्रपलायमानैः ।। ६ ॥ त्वं तारको जिन कथं भविनां त एव, त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यजलमेष नून,-मन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ यसिन् हरप्रभृतयोऽपि हतप्रभावाः, सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाऽथ येन, पीतं न किं तदपि दुर्द्धरवाडवेन ॥ ११ ॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्ना,-स्त्वां जन्तवः कथमहो हृदये दधानाः । जन्मोदधिं लघु तरन्त्यतिलाघवेन, चिन्त्यो न हन्त महतां यदि वा प्रभावः ॥ १२ ॥ क्रोधस्त्वया यदि विभो प्रथमं निरस्तो, ध्वस्तास्तदा बत कथं किल कर्मचौराः । प्लोषत्यमुत्र यदि वा शिशिरापि लोके, नीलगुमाणि विपिनानि न कि हिमानी ।। १३ ।। त्वां योगिनो जिन सदा परमात्मरूप-मन्वेषयन्ति हृदयाम्बुजकोशदेशे। पूतस्य निर्मलरुचेर्यदि वा किमन्य,दक्षस्य संभवि पदं ननु कर्णिकायाः ॥ १४ ॥ ध्यानाजिनेश ! भवतो भविनः चणेन, देहं विहाय परमात्मदशां व्रजन्ति । तीवानलादुपलभावमपास लोके, चामीकरत्वमचिरादिव धातुभेदाः ॥ १५ ।। अन्तः सदैव जिन ! यस्य विभाव्यसे त्वं, भव्यैः कथं तदपि नाशयसे शरीरम् । एतत् स्वरूपमथ मध्यविवर्तिनो हि, यद्विग्रहं प्रशमयन्ति महानुभावाः ॥१६॥ आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या, ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं, किं नाम