________________
श्री कल्याण मन्दिर स्तोत्र.
श्री कल्याणमन्दिरस्तोत्रम् । कल्याणमन्दिरमुदारमवद्यभेदि, भीताभयप्रदमनिन्दितमविपनम् । संसारसागरनिमज्झदशेषजन्तु,-पोतायमानमभिनम्य जिनेश्वरस्य ॥१॥ यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः, स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम् । तीर्थेश्वरस्य कमठस्मयधूमकेतो,-स्तस्याहमेष किल संस्तवनं करिष्ये ॥ २॥ (युग्मम्) सामान्यतोऽपि तव वर्णयितुं स्वरूप,-मसादृशाः कथमधीश भवन्त्यधीशाः । धृष्टोऽपि कौशिकशिशुयदि वा दिवान्धो, रूपं प्ररूपयति किं किल धर्मरश्मः ॥ ३ ॥ मोहक्षयादनुभव. मपि नाथ मर्यो, नूनं गुणान् गणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यसान् , मीयेत केन जलधेननु रत्नराशिः।।४॥ अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि, कर्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियाम्बुराशेः ।।५।। ये योगिनामपि न यान्ति गुणास्तवेश, वक्तुं कथं भवति तेषु ममावकाशः, | जाता तदेवमसमीक्षितकारितेयं, जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥६। आस्तामचिन्त्यमहिमा जिन संस्तवस्ते, नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनानिदाघे, प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ हृद्वर्तिनि त्वयि विभो शिथिलीभवन्ति । जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः। सद्यो भुजङ्गममया इव मध्यभाग,मभ्यागते वनशिखण्डिनि चन्दनस्य ॥८॥ मुच्यन्त एव