________________
श्री भक्तामर स्तोत्रम् ।
(२१)
णिताक्त,-मुक्ताफलप्रकरभूषितभूमिभागः।। बद्धक्रमः क्रमगतं हरिणाधिपोऽपि, नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ कल्पान्तकालपवनोद्धतवह्निकल्प, दावानलं ज्वलितमुज्ज्वलमुत्फुलिङ्गम् ॥ विश्वं जिघत्सुमिव संमुखमापतन्तं, त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ रक्तक्षणं समदकोकिलकएठनीलं, क्रोधोद्धतं फणिनमुत्फणमापतन्तम् ।। आक्रामति क्रमयुगेन निरस्तशङ्क,-स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७ ॥ वल्गत्तुरंगगजगर्जित भीमनाद-माजौ बलं बलवतामपि भूपतीनाम् ।। उद्यदिवाकरमयूखशिखापविद्धं, त्वत्की.
र्चनात्तम इवाशु भिदामुपैति ॥ ३८ ॥ कुन्ताग्रभिन्नगजशोणितवारिवाह,-वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा,-स्त्वत्पादपङ्कजवनायिणो लभन्ते ॥ ३६ ॥ अम्भोनिधौ चुभितभीषणनक्रचक्र,-पाठीनपीठभयदोल्वणवाडवाग्नौ ।। रङ्गत्तरङ्गशिखरस्थितयानपात्रा,-स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४० ॥ उद्भूतभीषणजलोदरभारभुग्नाः, शोच्यां दशामुपगताच्युतजीविताशाः ॥ त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा, मयों भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१ ॥ आपादकंठमुरुशृङ्खलवेष्टिताङ्गा, गाढं बृहनिगडकोटिनिघृष्टजंघाः ॥ त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगतबंधभया भवन्ति ॥४२ मत्तद्विपेन्द्रमृगराजदवानलाहि,-संग्रामवारिधिमहोदरबंधनोत्थम् ॥ तस्याशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ स्तोत्रस्रजं तव जिनेन्द्र ! गुखैर्निवद्धां,