________________
(२०)
श्री सप्त स्मरणादि नित्यस्मरण.
नाथ, तुभ्यं नमः क्षितितलामलभूषणाय ॥ तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन भवोदधिशोषणाय ॥ २६ ॥ को विस्मयोऽत्र यदि नाम गुणैरशेष-स्त्वं संश्रितो निरवकाशतया मुनीश ! ॥ दोषैरुपात्तविविधाश्रयजातगर्वैः, स्वमान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ उच्चैरशो. कतरुसंश्रितमुन्मयूख-माभाति रूपममलं भवतो नितान्तम् ।। स्पष्टोत्रसत्किरणमस्ततमोवितानं, बिम्ब रवि पयोधरपार्श्ववर्ति !॥ २८ ॥ सिंहासने मणिमयूखशिखाविचित्रे, विभ्राजते तव वपुः कनकावदातम् ॥ बिम्बं विद्विलसदंशुलतावितानं, तुंगोदयादिशिरसीव सहस्ररश्मेः ।। २९ ।। कुन्दावदातचलचामरचारुशोभं, विभ्राजते तव वपुः कलधौतकान्तम् ॥ उद्यच्छशांकशुचिनिझरवारिधार,-मुच्चैस्तटं सुरगिरेरिख शातकौम्भम् ॥ ३० ॥ छत्रत्रयं तव विभाति शशाङ्ककान्त,-मुचैः स्थितं स्थगितभानुकरप्रतापम् ॥ मुक्ताफलप्रकरजालविवृद्धशोभ, प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ ३१ ।। उनि. द्रहेमनवपङ्कजपुञ्जकान्ती, पर्युन्नसन्नखमयूखशिखाभिरामौ ।। पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः, पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२।। इत्थं यथा तव विभूतिरभूजिनेन्द्र , धर्मोपदेशनविधौ न तथा परस्य ॥ यादृक् प्रभा दिनकृतः प्रहतान्धकारा, तादृक्कुतो ग्रहगणस्य विकाशिनोऽपि ॥३३॥ श्योतन्मदाविलविलोलकपोलमूल,- मत्तभ्रमभ्रमरनादविवृद्धकोपम् ॥ ऐरावताभमिभमुद्धतमापतन्त, दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥ भिन्नेभकुम्भगलदुज्ज्वलशो