________________
श्री भक्कामर स्तोत्रम् । दरनिरुद्धमहाप्रभावः सूर्यातिशायिमाहमासि मुनीन्द्र लोके ॥ १७॥ नित्योदयं दलितमोहमहान्धकारं, गम्यं न राहुबदनस्य न वारिदानाम् ॥ विभ्राजते तव मुखाजमनल्पकान्ति, विद्योतयजगदपूर्वशशांकबिंबम् ॥१८॥ किं शर्वरीषु शशिनाह्नि विवस्वता वा, युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ! ॥ निष्पन्नशालिवनशालिनि जीवलोके, कार्य कियजलधरैर्जलभारनः ॥१९॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु ।। तेजः स्फुरन्माणिषु याति यथा महत्त्वं, नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ मन्ये वरं हरिहरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति ॥ किं वीक्षितेन भवता भुवि येन नान्यः, कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥ २१ ॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् , नान्या सुतं त्वदुपमं जननी प्रसूता ॥ सर्वा दिशो दधति भानि सहस्ररश्मि, प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ २२ ॥ त्वामामनन्ति मुनयः परमं पुमांस,-मादित्यवर्णममलं तमसः परस्तात् ।। त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु, नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ।। २३ ।। त्वामव्ययं विभुमचिन्त्यमसंख्यमाचं, ब्रह्माणमीश्वरमनंतमनंगकेतुम् ॥ योगीश्वरं विदितयोगमनेकमेकं, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४॥ बुद्धस्त्वमेव विबुधाचित बुद्धिबोधात , त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् ॥ धातासि धीर शिवमार्गविधेर्विधानाद्, व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२॥ तुभ्यं नमस्त्रिभुवनानिहराय