________________
(१८) श्री सप्त स्मरणादि नित्यस्मरण. मुपैति ननूदबिन्दुः ॥ ८॥ आस्तां तव स्तवनमस्तसमस्तदोषं, त्वत्संकथापि जगतां दुरितानि हन्ति ॥ दूरे सहस्त्रकिरणः कुरुते प्रभैव, पद्माकरेषु जलजानि विकाशभाञ्जि ॥ 8 ॥ नात्यद्भुतं भुवनभूषणभूत नाथ, भूतैगुणैभुवि भवन्तमभिष्टुवन्तः ।। तुल्या भवन्ति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्मसमं करोति ॥ १० ॥ दृष्ट्वा भवन्तमनिमेषविलोकनीयं, नान्यत्र तोषमुपयाति जनस्य चक्षुः ॥ पीत्वा पयः शशिकरद्युतिदुग्धसिन्धोः, क्षारं जलं जलनिधेरशितुं क इच्छेत् ॥ ११ ॥ यैः शान्तरागरुचिभिः परमाणुमिस्त्वं, निर्मापितस्त्रिभुवनैकललामभूत ! ॥ तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ वक्त्रं क्य ते सुरनरोरगनेत्रहारि, निःशेषनिर्जितजगत्रितयोपमानम् ॥ बिम्बं कलङ्कमलिनं क्ष निशाकरस्य, यद्वासरे भवति पाण्डुपलाशकन्पम् ॥ १३ ॥ संपूर्णमण्डलशशाङ्ककलाकलाप,-शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति ।। ये संश्रितास्त्रिजगदीश्वरनाथमेकं, कस्तानिवारयति संचरतो यथेष्टम् ॥ १४ ॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि-नीतं मनागपि मनो न विकारमार्गम् ।। कन्पान्तकालमरुता चलिताचलेन, किं मन्दरादिशिखरं चलितं कदाचित् ॥ १५ ॥ निधूमवर्तिरपवर्जिततैलपूरः, कृत्स्नं जगत्रयमिदं प्रकटीकरोषि ॥ गम्यो न जातु मरुतां चलिताचलानां, दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ॥ १५ ॥ नास्तं कदाचिदुपयासि न राहुगम्यः, स्पष्टीकरोषि सहसा युगपजगन्ति ।। नाम्भोधरो