________________
(१८५) चित्ते भ्रान्तिर्जायत मद्यपानाद्
भ्रान्ते चित्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं याति मूढ__ स्तस्मान्मद्यं नैव पेयं न पेयम् ॥१३११ ॥ ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो । ज्ञानस्योपशमः कुलस्य विनयो वित्तस्य पात्रे व्ययः ।। अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता । सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥१३१२ ॥ सन्ति स्वादुफला वनेषु तरवः स्वच्छं पयो नैझरं । वासो वन्कलमाश्रयो गिरिगुहा शय्या लतावल्लरी ॥ . पालोकाय निशासु चन्द्रकिरणाः सख्यं कुरङ्गः सह । स्वाधीने विभवेऽप्यहो धनपति सेवन्त इत्यद्भुतम् ।।१३१३॥ केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्वला। न स्नानं न विलेपनं न कुसुमं नालङ्कता मूर्धजाः ॥ वाण्येका समलङ्करोति पुरुष या संस्कृता धार्यते । क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।।१३१४॥ ब्रह्मचारी का कामदेव को उपालम्भकाम ! जानामि ते रूपं, सङ्कल्पात् किल जायसे । न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि ॥१३१५॥ नारकीयों को कैसा दुःख है ? श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं,
हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् ।