SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ( १८६) कटविदहनं तीक्ष्णापातत्रिशूलविभेदनं, दहनवदनैः कर्पोरैः समन्तविभक्षणम् ॥१३१६।। तीक्ष्णैरसिमिर्दीप्तैः, कुन्तैर्विषमैः परश्वधैश्चकैः।। परशु-त्रिशूल-मुद्गर-तोमर-वासी-मुषण्दीभिः ॥१३१७।। संभिन्नतालुशिरस-छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोदरान्त्रा, भिन्नाक्षिपुटाः सुदुःखार्ताः ॥१३१८॥ निपतन्त उत्पतन्तो, विचेष्टमाना महीतले दीनाः। . नेक्षन्ते त्रातारं, नैरयिकाः कर्मपटलान्धाः ॥१३१९॥ छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, .. क्रन्दन्तो विषवृश्चिकैः परिवृताः संभक्षणव्यापृतैः। . पाट्यन्ते क्रकचेन दारुवदसिना प्रच्छिन्नबाहुद्वया, कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः ॥१३२०॥ भृज्ज्यन्ते ज्वलदम्बरीषहुतभुगज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गारकेस्थिताः। दह्यन्ते विकृतोर्ध्वबाहुवदनाः क्रन्दन्त आर्तस्वना, पश्यन्तः कुपणा दिशो विशरणास्त्राणाय को नो भवेत्।।१३२१॥ पीतनीरस्य किं नाम मंदिरादिकपृच्छया। कृतौरस्य वा पुंसः किं नक्षत्रपरीचया ॥१३२२॥ कौलमतावलम्बियों की कपटपटुताअन्तः शाक्ता बहिः शैवाः, सभामध्ये च वैष्णवाः । नानारूपधराः कौला, विचरन्ति महीतले ॥१३२३॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy