SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ( १८४ ) तत्त्वं समाधाय समाचरन्ति, ____ स्वार्थ प्रकुर्वन्ति परस्य चार्थम् ॥१३०५ ॥ मुक्ताफलैः किं मृगपक्षिणां च, मिष्टानपानेन च किं खराणाम् । अन्धस्य दीपेन च कोऽस्ति हेतु गीतेन कोऽर्थों बधिरस्य चापि ॥ १३०६॥ दानाय लक्ष्मीः सुकृताय विद्या चिन्ता परब्रह्मविनिश्चयाय । परोपकाराय वांसि यस्य । वन्द्यस्त्रिलोकीतिलकः स एव ।। १३०७॥ भवन्ति नम्रास्तरवः फलोद्गमै-- वाम्बवो भूरिविलम्बिनो घनाः। अनुद्धताः सत्पुरुषाः समृद्धिभिः, स्वभाव एवैष परोपकारिणाम् ॥ १३०८॥ कन्पद्रुमः कल्पितमेव सूते, गौः कामधुक् कामितमेव दोग्धि । चिन्तामणिश्चिन्तितमेव दत्ते, सतां तु सङ्गः सकलं प्रसूते ॥१३०६ ॥ जाड्यं धियो हरति सिञ्चति वाचि सत्यं ___ मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति .. सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ १३१० ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy