SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ( १८१ ) ।। १२७६ । भये महति हर्षे वा सम्प्राप्ते यो विचिन्तयेत् कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात् आपन्नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः । न तरत्यापदं कश्चिद् योऽत्र मित्रविवर्जितः ।। १२७७ ।। यः पृष्ट्वा कुरुते कार्य प्रष्टव्यान् स्वान् हितान् गुरून् । न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि ॥ १२७८ ॥ दुर्जनो जीयते युक्त्या विग्रहेण न धीमता । निपात्यते महावृक्षस्तत्समीपचितिक्षयात् किं कुलेन विशालेन विद्याहीनस्य देहिनः । अकुलीनोऽपि विद्यावान् विबुधैरपि पूज्यते यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः । चित्ते वाचि क्रियायां च साधूनामेकरूपता स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसताम् । न त्यजन्ति रुतं मञ्जु काकसम्पर्कतः पिकाः ॥ १२८२ ॥ ॥ १२७९ ॥ ।। १२८० ॥ ।। १२८१ ।। यथा परोपकारेषु नित्यं जागर्ति सज्जनः | तथा पराऽपकारेषु नित्यं जागर्ति दुर्जनः 1 ।। १२८३ ॥ लोभाविष्टो नरो वित्तं वीक्षते न स आपदम् । दुग्धं पश्यति मार्जारो यथा न लगुडाइतिम् ॥ १२८४ ॥ जानीयात् सङ्गरे भृत्यान् बान्धवान् व्यसनागमे । आपत्कालेषु मित्राणि भार्यां च विभवक्षये ॥ १२८५ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy