________________
( १८२) देहीति वचनं श्रुत्वा देहस्थाः पञ्च देवताः । मुखानिर्गत्य गच्छन्ति श्रीहीधीधृतिकीर्तयः ॥१२८६ ॥ यस्य नास्ति विवेको वै केवलं यो बहुश्रुतः। न स जानाति शास्त्रार्थान् दर्वी पाकरसानिव ॥ १२८७ ॥. चितां प्रज्वलितां दृष्ट्वा वैद्यो' विस्मयमागतः । नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम् ॥१२८८ ।। नालिकेरसमाना हि दृश्यन्ते खलु सजनाः। अन्ये बदरिकातुल्या बहिरेव मनोहराः ॥१२८९ ।। त्याग एको गुणः श्लाध्यः किमन्यैर्गुणराशिभिः । त्यागाजगति पूज्यन्ते नूनं वारिदपादपाः ॥१२९० ॥ दानोपभोगरहिता दिवसा यस्य यान्ति वै । स लोहकारभस्नेव श्वसनपि न जीवति ॥ १२६१ ॥ कुसुमस्तबकस्येव द्वे गतीह मनस्विनः। मूनि वा सर्वलोकस्य शीर्यते वन एव वा ॥ १२६२ ॥ गुणेन स्पृहणीयः स्यान रूपेण पुनर्जनः। गन्धहीनं न गृह्णाति पुष्पं कान्तमपीह नो ॥१२६३ ॥ योजनानां सहस्रं वै शनैर्गच्छेत पिपीलिका । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥१२६४ ॥ नाऽसत्यवादिनः सख्यं न पुण्यं न यशो भुवि । दृश्यते नापि कल्याणं कालकूटमिवाश्नतः ॥१२६५ ।।
.१ 'कुवैद्यः' इत्यर्थः । २ मनुष्यः ।