________________
( १८०)
त्यजेदेकं कुलस्यार्थे ग्रामस्याथै कुलं त्यजेत् । . ग्रामं जनपदस्यार्थे ह्यात्मार्थे च महीं त्यजेत् ॥ १२६६ ।। स्पृशनपि गजो हन्ति जिघ्रनपि भुजङ्गमः ।। इसमपि नृपो हन्ति मानयत्नपि दुर्जनः ॥ १२६७ ।। चलत्येकेन पादेन तिष्ठत्यन्येन पण्डितः। नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥.१२६८ ॥ द्वाविमौ पुरुषौ लोके सुखिनौ न कदाचन । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ १२६९ ॥ वनानि दहतो वहेः सखा भवति मारुतः।। स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ १२७० ॥ परोऽपि हितवान् बन्धुर्वन्धुरप्यहितः परः । अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥१२७१ ॥ एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् । गतानुगतिका लोका न लोकास्तत्वदर्शिनः ॥ १२७२ ॥ कुसुमानां यथा हृचं सारं गृह्णाति षट्पदः । सारं तथैव गृह्णाति शास्त्राणां खलु पण्डितः ॥१२७३॥ मनसा चिन्तितं कार्य वचसा न प्रकाशयेत् । अन्यलक्षितकार्यस्य यतः सिद्धिर्न जायते ॥१२७४ ॥ पुस्तकस्था हि या विद्या धनं यद् वान्यहस्तगम् । नोपकुर्याजनस्येह कार्यकाले समुत्थिते ॥१२७५॥