________________
(१७९)
दुर्जनेन समं सख्यं मा कुरुष्व कदाचन ।
।। १२५८ ।।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ।। १२५६ ।। यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः || १२५७॥ कृपणेन समो दाता न भूतो न भविष्यति । अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति परोपकारशून्यस्य धिङ् मनुष्यस्य जीवितम् । जीवन्तु पशवो येषां चर्माऽप्युपकरिष्यति विहाय पौरुषं यो हि दैवमेवावलम्बते । प्रासादसिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥ १२६० ॥ चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः । साधुसङ्गतिरेताभ्यां नूनं शीततरा स्मृता
।। १२५९ ।।
॥ १२६१ ॥
यस्य मित्रेण सम्भाषा यस्य मित्रेण संस्थितिः । मित्रेण सह यो भुङ्क्ते स मतः पुण्यवान् बुधैः ॥ १२६२ ॥ वाणी रसवती यस्य भार्या प्रेमवती सती ।
लक्ष्मीर्दानवती यस्य सफलं तस्य जीवितम् ॥ १२६३ ॥
सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि । प्रतिकूलेषु भाग्येषु त्यजन्ति स्वजनं खलु
॥। १२६४ ॥
क्षमापरं तपो नास्ति न सन्तोषात् परं सुखम् न च लोभात् परो व्याधिर्न च धर्मो दयापरः ।। १२६५ ।।