SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ( १७८) पापानिवारयति योजयते हिताय, गुह्यानि गृहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥१२४९ ॥ मातेव रक्षति पितेव हिते नियुते कान्तेव चापि रमयत्यपनीय खेदम् । लक्ष्मी तनोति वितनोति च दिक्षु कीर्ति किं किं न साधयति कल्पलतेव विद्या ॥ १२५०॥ वासो वल्कलमास्तरः किसलयान्योकस्तरूणां तलं मूलानि पतये नुधो गिरिनदीतोयं वृषाशान्तये। . क्रीडा मुग्धमृगैर्वयांसि सुहृदो नक्तं प्रदीपः शशी स्वाधीने विभवेऽपि हन्त कृपणा याचन्त इत्यद्भुतम् ॥१२५१। यो नात्मजे न च गुरौ न च भृत्यवर्गे ____दीने दयां न कुरुते न च बन्धुवर्गे । किं तस्य जीवितफलं हि मनुष्यलोके ___ काकोऽपि जीवति चिराय बलिं च भुते ॥१२५२॥ हर्तन गोचरं याति दत्ता भवति विस्तृता ।। कन्पान्तेऽपि न सा नश्येत् किमन्यद् विद्यया समम् ॥१२५३ केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः । केचिज्ज्ञानावलेपेन केचिद् दुष्टैश्च नाशिताः ॥१२५४ ॥ को न याति वशं लोके मुखे पिण्डेन पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥१२५५ ।।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy