________________
( १७७)
परोचे हन्ति यत् कार्य प्रत्यक्षे भाषते प्रियम् । वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ १२४१ ॥ पिबन्ति मधु पद्धेषु भृङ्गाः केसरधूसराः। हंसाः शैवालमश्नन्ति धिग् दैवमसमञ्जसम् ॥१२४२ ॥ सेवया धनमिच्छद्भिः सेवकैः पश्य किं कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूडैस्तदपि हारितम् ॥१२४३ ॥ यश्च सञ्चरते देशान् सेवते यश्च पण्डितान् ।। तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥ १२४४ ॥ छिनोऽपि रोहति तरु-श्चन्द्रः क्षीणोऽपि वर्धते लोके । इति विमृशन्तः सन्तः, सन्तप्यन्ते न लोकेऽस्मिन् ॥१२४॥ रत्नाकरः किं कुरुते स्वरत्नैर्विन्ध्याचलः किं करिभिः करोति । श्रीखण्डवृक्षैर्मलयाचलः किं, परोपकाराय सतां विभूतयः।४६ चार जलं वारिसुचः पिबन्ति
तदेव कृत्वा मधुरं वमन्ति । सन्तस्तथा दुर्जनदुर्वचांसि
श्रुत्वा हि सूक्तानि सदा वदन्ति ॥१२४७॥ याचना हि पुरुषस्य महत्त्वं,
नाशयत्यखिलमेव तथाहि । सद्य एव भगवानपि विष्णु
वोमनो भवति याचितुमिच्छन् ॥१२४८ ॥