________________
( १७६ ) यथा गजपतिः श्रान्तश्छायार्थी वृत्तमाश्रितः विश्रम्य तं द्रुमं हन्ति तथा नीचः स्वमाश्रयम् ॥१२३२॥ युध्यन्ते पक्षिपशवः पठन्ति शुकसारिकाः । दातुं शक्नोति यो वित्तं स शूरः स च पण्डितः॥१२३३ ।।
युधिष्ठिरो यक्ष प्रति ब्रूते- . . पञ्चमेऽहनि वा षष्ठे शाकं पचति यो गृहम् । अनृणी चाप्रवासी च स वारिचर मोदते ॥१३३४ ।। एकचक्रो रथो यन्ता विकलो विषमा हयाः । माक्रामत्येव तेजस्वी तथाप्यर्को नमस्तलम् ॥ १२३५ ॥ गुणैर्गौरवमायाति न महत्याऽपि सम्पदा । पूर्णेन्दुर्न तथा वन्द्यो निष्कलङ्को यथा कृशः ॥१२३६ ॥ प्रभुमिः पूज्यते लोके कलैव न कुलीनता । कलावान् धार्यते मूर्ध्नि सत्सु देवेषु शम्भुना ॥१२३७ ।। अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद् हि सत्यमेव विशिष्यते ॥१२३८ ।। किं कुलेनोपदिष्टेने शीलमेवात्र कारणम् । भवन्ति सुतरा स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ १२३६ ॥ भद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च शीलमेतद् विदुर्बुधाः ॥१२४० ।।
. १ हे यक्ष । २ . किं कुलस्य कथनेन ' इत्यर्थः ।