________________
( १७५)
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ १२२२ ॥ स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि च । न हि चूडामणिः पादे नू पुरं मूनि धार्यते ॥ १२२३ ॥ न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । विश्वस्यात् तत्र न प्राज्ञो यदीच्छेच्छ्रेय आत्मनः ॥१२२४॥ सद्भिः सम्बोध्यमानोऽपि दुरात्मा पापपूरुषः । घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥१२२५ ॥ गुणानामन्तरं प्रायस्तज्झो जानाति नेतरः। मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनम् ॥१२२६ ॥ सद्विद्या यदि का चिन्ता वराकोदरपूरणे । शुकोऽप्यशनमामोति राम रामेति वै ब्रुवन् ॥१२२७॥ विदुषां वदनाद् बाचः सहसा यान्ति नो बहिः । याताश्चेन्न पराश्चन्ति द्विरदानां रदा इव ॥१२२८ ॥ उदये सविता रक्तो रक्तश्चास्तमने तथा । सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥१२२९ ॥ श्लोको वै श्लोकतां याति यत्र तिष्ठन्ति साधवः । लकारो लुप्यते तत्र यत्र तिष्ठन्त्यसाधवः ॥१२३० ॥ सजना एव साधूनां प्रथयन्ति गुणोत्करम् । पुष्पाणां सौरमं प्रायस्तनुते दिक्षु मारुतः ॥१२३१ ॥
१ तत्र शोको भवति, इत्यर्थः