________________
( १७४) मर्थनाशं मनस्तापं गृहे दुश्चरितानि च।। वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ १२११ ॥ सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् ।। सद्भिर्विवादं मैत्री च नासद्भिः किञ्चिदाचरेत् ॥ १२१२ ।। जानन्ति पशवो गन्धाद् वेदाजानन्ति पण्डिताः। चरैर्जानन्ति राजानो नेत्राभ्यामितरे जनाः ॥ १२१३ ॥ सा भार्या या प्रियं ब्रूते स पुत्रो निर्वृतिर्यतः। तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥१२१४ ॥ द्वाविमौ पुरुषौ लोके न भूतो न भविष्यतः। प्रार्थितं यश्च कुरुते यश्च नार्थयते परम् ॥१२१५ ।। वेपथुमलिनं वक्त्रं दीना वाग् गद्गदस्वरः। . भरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ १२१६ ।। न कश्चिदपि जानाति किं कस्य श्वो भविष्यति । अतः श्व:करणीयानि कुर्यादद्यैव बुद्धिमान् ॥१२१७ ॥ निःसारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।। न सुवर्णाद् ध्वनिस्तादृग् यादृक् कांस्यात् प्रजायते॥१२१८॥ सा श्रीर्या न मदं कुर्यात् तन्मित्रं यत् सदा समम् । स सुखी यो वितृष्णश्च स नरो यो जितेन्द्रियः ॥ १२१६ ।। गुरुशुश्रूषया विद्या प्राप्यते द्रविणेन वा । अथवा विद्यया विद्या न दृष्टं साधनान्तरम् ॥१२२० । यावत् स्वस्थो ह्यसौ देहो यावन्मृत्युश्च दूरतः । वावदात्महितं कुर्याः प्राणान्ते किं करिष्यसि ॥१२२१ ।।