________________
( १७३) तीक्ष्णधारेण खड्न वरं जिह्वा द्विधा कृता। न तु मानं परित्यज्य देहि देहीति भाषणम् ॥१२०१ ॥ उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् । प्रायः कूपस्तृषां हन्ति न कदापि तु वारिधिः ॥१२०२॥ सुखार्थी च त्यजेद् विद्यां विद्यार्थी च त्यजेत् सुखम् । सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥ १२०३ ॥ मात्मार्थ जीवलोकेऽस्मिन् को न जीवति मानवः । परं परोपकारार्थ यो जीवति स जीवति ॥१२०४ ॥ बहूनामन्पसाराणां समवायो दुरत्ययः । तृणैर्विधीयते रज्जुर्बध्यन्ते दन्तिनस्तया ॥१२०५॥ महाजनस्य संसर्गः कस्य नोनतिकारकः । पनपत्रस्थितं वारि धत्ते मुक्ताफलाश्रयम् ॥१२०६ ॥ काचः काञ्चनसंसर्गाद् धत्ते मारकती द्युतिम् । तथा सङ्गेन विदुषां मूर्यो याति प्रवीणताम् ॥१२०७ ।। निष्णातोऽपि हि वेदान्ते साधुत्वं याति नो खलः । चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ॥१२०८ ।। प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥१२०९ ॥ चिन्तनीया हि विपदामादावेव प्रतिक्रियाः। न कूपखननं युक्तं प्रदीप्ते वतिना गृहे ॥१२१०॥
१ 'पुरुषः' इति शेषः ।