________________
(१७२) उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः। एतानि यत्र वर्तन्ते तत्र देवः प्रसीदति ॥११९३ ।। आरोग्यं विद्वत्ता, सज्जन मैत्री महाकुले जन्म । स्वाधीनता नराणां, महदैश्वर्य विनाप्यर्थैः ॥ ११९४ ॥ गुणी गुणं वेत्ति न वेत्ति निर्गुणो
बली बलं वेत्ति न वेत्ति निबलः । पिको वसन्तस्य गुणं न वायसः
करी च सिंहस्य बलं न मूषकः ॥ ११९५ ॥ सत्यं तपो ज्ञानमहिंसतां च
वृद्धप्रणामं च सुशीलतां च । एतानि यो धारयते स विद्वान्
न केवलं वेदविदेव विद्वान् ॥ ११९६ ॥ परोपकाराय फलन्ति वृक्षाः
परोपकाराय वहन्ति नद्यः। परोपकाराय दुहन्ति गावः
परोपकारार्थमिदं शरीरम् ॥११६७ ॥ पुस्तकं येन नाधीतं नाघीतं गुरुसनिधौ । सभायां शोभते नैव हंसमध्ये बको यथा ॥११९८ ॥ स जीवति गुणा यस्य धर्मो यस्य स जीवति । गुणधर्मविहीनो यो निष्फलं तस्य जीवितम् ॥ ११९९ ॥ चाण्डालश्च दरिद्रश्च जनावेतौ समाविह । चाण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति ॥ १२००॥