________________
(१७१)
पिपीलिकार्जितं धान्यं मक्षिकासश्चितं मधु । लुब्धेन सश्चितं द्रव्यं समूलं वै विनश्यति ॥११८२ ॥ विवेकः सह सम्पच्या विनयो विद्यया सह । प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥११८३ ॥ सर्पः क्रूरः खलः क्रूरः सात् क्रूरतरः खलः । मन्त्रेण सान्त्व्य ते सर्पः खलस्तु न कथंचन ॥ ११८४ ।। प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ॥११८५ ॥ गौरवं प्राप्यते दानान तु वित्तस्य सञ्चयात् । स्थितिरुच्चैः पयोदानां पयोधीनामधः स्थितिः ॥११८६॥ गीतशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥१९८७ ॥ यस्मिन् देशे न सम्मानो न प्रीतिनं च बान्धवाः । न च विद्यागमः शक्यो मा तत्र दिवसं वस ॥११८८ ॥ अतिसञ्चयकर्तृणां विचमन्यस्य हेतवे । मन्यैः सञ्चीयते यत्नादन्यैश्च मधु पीयते ॥११८९ ॥ च्युता दन्ताः सिता केशा दृष्टिरोधः पदे पदे। क्षीणं जीर्णमिमं देहं तृष्णा नूनं न मुश्चति ॥ ११९० ॥ गुणवजनसम्पर्काद् याति नीचोऽपि गौरवम् । पुष्पाणामनुषङ्गेण सूत्रं शिरसि धार्यते ॥११९१ ॥ गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः । वासुदेवं नमस्यन्ति वसुदेवं न मानवाः ॥११९२ ॥