SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ( १७० ) ॥ ११७१ ॥ ॥ ११७३ ॥ ॥ ११७४ ॥ साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । तीर्थ फलति कालेन सद्यः साधुसमागमः शुचित्वं त्यागिता शौर्य समत्वं सुखदुःखयोः । दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥ ११७२ ॥ एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । दाते काननं सर्व दुष्पुत्रेण कुलं तथा नास्ति क्षुधासमं दुःखं क्षुधा प्राणापहारिणी । नास्त्याहारसमं सौख्यमाहारः प्राणरक्षकः मद्यपस्य कुतः सत्यं दया मांसाशिनः कुतः | अलसस्य कुतो विद्या निर्धनस्य कुतः सुखम् ॥ ११७५ ।। सर्पाणां च खलानां च परद्रव्यापहारिणाम् । मनोरथा न सिध्यन्ति तेनेदं वर्तते जगत् नास्ति विद्यासमं नेत्रं नास्ति सत्यसमं तपः । नास्ति लोभसमं दुःखं नास्ति त्यागसमं सुखम् ॥ ११७७॥ पण्डिते चैव मूर्खे च बलवत्यबलेऽपि च । सघने निर्धने चैव मृत्योः सर्वत्र तुल्यता मातृवत् परदारेषु परद्रव्येषु लोष्ठवत् । श्रात्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥ ११७३ ॥ राजपत्नी गुरोः पत्नी भ्रातृपत्नी तथैव च । ॥ ११७६ ॥ ॥ ११७८ ॥ पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥ ११८० ॥ ज्ञातिभिर्भज्यते नैव चौरेणापि न नीयते । दानेन न चयं याति विद्यारत्नं महाधनम् ॥ ११८१ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy