________________
( ११ )
द्रव्य के विना सब निष्फल है ।
साकारोऽपि सविद्योऽपि, निर्द्रव्यः क्वापि नार्घ्यते । व्यक्ताचरः सुवृत्तोऽपि, द्रम्मः कूटो यथा जने ॥ ५५ ॥ धनवाला सर्व श्रेष्ठ है ।
यस्यास्ति वित्तं स नरः कुलीनः, स पंडितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः कांचनमाश्रयन्ते । ५६ । धन अन्याय से नहीं लेना चाहिए ।
अन्यायोपार्जितं वित्तं दश वर्षाणि तिष्ठति । प्राप्ते त्वेकादशे वर्षे, समूलं च विनश्यति ।। ५७ ।। दान और भोग नहीं करनेवाले का धन नहीं रहता । दानं भोगो नाश - स्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्के, तस्य तृतीया गतिर्भवति ॥ ५८ ॥ दातव्यं भोक्तव्यं, सति विभवे संचयो न कर्त्तव्यः । पश्येह मधुकरीणां संचितमर्थ हरन्त्यन्ये ॥ ५९ ॥ नकार की विचित्रता ।
नाणं नियमग्गहणं, नवकारो नयरुई अ निट्ठा य । पंच न विभूसियाणं, न दुल्लहा सुग्गई लोए ॥ ६० ॥ नारी - नदी-नरेन्द्राणां नागानां च नियोगिनां । नखिनां च न विश्वासः, कर्तव्यः श्रियमिच्छता ॥ ६१ ॥