SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ॥ १११६ ॥ ( १६५ ) चाहने ये गुणाः प्रोक्तास्ते गुणाः कटिबंधने निवाते ये गुणाः प्रोक्तास्ते गुणाः कर्णबंधने । लंघने ये गुणाः प्रोक्तास्ते गुणा लघुभोजने व्यायामे ये गुणाः प्रोक्तास्ते गुणा प्राणधारणे ॥ १११८ ॥ धनुषि धनुराकारः मकरे कुंडलाकृतिः । कुंभे शीतमशीतं वा मीने शीतनिवारणम् मञ्जन्ति मुनयः सर्वे त्वमेकः किं न मजसि । अंबे त्वदर्शनाद् मुक्तिः न जाने स्नानजं फलम् ॥ ११२० ॥ विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्याधितस्योंषधं मित्रं धर्मो मित्रं मृतस्य च गुणो भूषयते रूपं शीलं भूषयते कुलम् । शान्तिर्भूषयते विद्यां दानं भूषयते धनम् अतिदानाद् बलिर्बद्धो ह्यतिदर्पात् सुयोधनः विनष्टो रावणो लोभादति सर्वत्र वर्जयेत् वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् । वृथा दानं समर्थेभ्यो वृथा दीपो दिवाऽपि च शोभते विद्यया विप्रः चत्रियो विजयेन वै । अर्थः पात्रे प्रदानेन लज्जया च कुलाङ्गना सौवर्णानि सरोजानि निर्मातुं सन्ति शिम्पिनः । तत्र सौरभनिर्माणे चतुरश्चतुराननः प्रदोषे दीपकचन्द्रः प्रभाते दीपको रविः त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः ॥ ११२२ ।। ॥ ११२३ ॥ ॥ ११२४॥ ॥ ११२५ ।। ।। ११२६ ॥ ॥ ११२१ ॥ ।। ११२७ ।।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy