________________
(१६६)
हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् । श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥११२८॥ नरस्याभरणं रूपं रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥ ११२९ ॥ आत्मनो मुखदोषेण वध्यन्ते शुकसारिकाः । बकास्तु नैव वध्यन्ते मौनं सर्वार्थसाधनम् ॥ ११३० ॥ महो दुर्जनसंसर्गान्मानहानिः पदे पदे। पावको लोहसङ्गेन मुद्गरैरभिहन्यते ॥ ११३१ ।। एकोऽपि गुणवान् पुत्रो निर्गुणैः किं शतैरपि । एकश्चन्द्रो जगन्नेत्रं नक्षत्रैः किं प्रयोजनम् ॥११३२ ।। दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । सस च गृहे वासो मृत्युरेव न संशयः ॥११३३ । अन्नदानं महादानं विद्यादानं महत्तरम् । अन्नन क्षणिका तृप्तिर्यादजीवं तु विद्यया ॥११३४ ॥ कवयः किं न पश्यन्ति किं न खादन्ति वायसाः मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति दुर्जनाः॥११३५॥ जनिता चोपनेता च विद्यायाश्च प्रदायकः । अन्नदाता भयत्राता पश्चैते पितरः स्मृताः ॥११३६ ॥ पादपानां भयं वातात् पानां शिशिराद् भयम् । पर्वतानां भयं वज्रात् साधूनां दुर्जनाद् भयम् ॥११३७॥ उद्योगः खलु कर्तव्यः फलं मार्जारवद् भवेत् । जन्मप्रभृति गौनास्ति पयः पिबति नित्यशः ॥११३८॥